________________
१००
क्षीरतरङ्गिण्या २८) इति वेद्-रुष्टः रुषित,रेष्टा रेषिता । रिष्टः, अरिष्टः' । खषेत्यपीति कण्ठः-खषति खषः ॥६६४–६७३॥
४५६. भष भर्त्सने । शब्दकर्मकः, कुत्सितशब्दकरणार्थे । श्वा भषति, बुक्कति । भषति भषिका, पेशुन्येन वक्तीत्यर्थः । भषकः । भषट (द्र० गण० ३।१।१२४ =भषी) ॥६७४॥
४६०. उष दाहे। अोषति । उपविदजागरन्यतरस्याम' (तु०३।१। ३८) इति लिट्याम् वा-पोषाञ्चकार, उवोष । उणादावुल्का, उल्मुकम्, उलप: सूक्ष्मलताभिधानम्, उल्वं जरायुः । उषिकुषिर्गातभ्यस्थन् (उ० २।४)-प्रोष्ठः। इणषिजिदीडष्यविभ्यो नक (उ० ३।२)-उष्णः । उषिखनिभ्यां कित् (उ० ४।१६२) - उष्ट: उष्ट्री। उषः कित् (उ० ४।२३४) उषाः । प्रसुन् (दश० उ० ६।४६) उषः प्रभातम् ॥६७५॥
४६१. जिषु विष मिषु सेचने । परिवेषति । ह्वादौ विष्ल व्याप्तौ (३।१४)-वेवेष्टि । मेषति । पचादौ (गण०३।१।१३४) मेषः । तुदादौ १५ मिष स्पर्धायाम (६।५६) मिषति । मिश मश शब्दे (११४७६)
तालव्यान्तौ ॥६७६-६७८॥ ___४६२. पुष पुष्टौ । पोषति । पोषिता । अपोषीत् । पुषः कित् (उ० ४।४) पुष्करम् । कलश्च (तु०उ० ४।५) पुष्कलम् । स्तनि
यथा कोशेषु पाठः । एतेन ज्ञायते क्षीरस्वामिनः तीषुसहलुभ' इत्येव पाठः।
१. रिष्टम्', अरिष्टम्' पाठा० ।
२. क्षीरस्वामिन: सर्वत्र 'जागुरन्यः' इत्येव पाठः । 'उषविदजागृभ्यो. ऽन्यतरस्याम्' इति काशिकादिषु तु पाठः ।
३. 'ष्ट्रन् बाहुलकादगुणत्वम्' इति धातुवृत्तिकार:(पृष्ठ १२३)। तच्चिन्त्यम्, उणादिसूत्रेणैव सर्वेष्टसिद्धः।
४. काशकृत्स्नीयधातुपाठे जेषतेरनन्तर 'णिष' पठ्यते, नेषति (पृष्ठ ४२) एतद्विषये 'नेषतिः धात्वन्तरम्' इति पतञ्जलिवचनम् (३।२।१३५) अनुसन्धेयम् ।
५. 'कलच्च' इति श्वेतवनवासिनः पाठः (४५) । अथर्वणि (१३।३। १०) पुष्कलशब्दस्यान्तोदात्तत्वदर्शनात् श्वेतवनवासिपाठ एव ज्यायान् ।
२५