________________
भ्वादिगणः (१)
६७ श्नुः तक्षति तक्ष्णोति । नेह-- संतक्षति वाग्भिः । तष्टा, तक्षिता' । तष्टः । तक्षा। तक्षकः । त्वक्षति । त्वष्टा, त्वक्षिता । त्वक्ष त्वचने (१॥ ४४३) अथभेदार्थः ॥६३५,६३६।। ___४३७. उक्ष सेचने । उक्षति । उक्षितः । श्वनुक्षन् (उ० १।१५६) इति-उक्षा ॥६३७॥
४३८. रक्ष पालने। चौराद् रक्षति । असुन् (दश० उ० ६।४६) रक्षः ॥६३८॥
४३६. णिक्ष चुम्बने । चुम्बनं वक्त्रसंयोगः । प्रणिक्षति । वा निक्षनिसनिन्दाम्' (तु. ८।४।३३) इति णत्वम् - प्रणिक्षिता, प्रनिक्षिता ॥
६३६॥ १० - ४४०. तृक्ष स्तृक्ष णक्ष गतौ। [तृक्षति, स्तृक्षति] । तृक्षस्यापत्यं तार्यः (द्र० ४।१।१०५) । स्तृक्षः । षोपदेशो न्याय्यः, तथा च चान्द्राः - तृक्ष ष्टक्ष' णक्ष (तु० चा० धा० ११२१५) इति पेठुः । अभिनक्षि (उ० ३।१०५) इत्यत्रन्-नक्षत्रम् । नभ्राट् (६।३।६५) सूत्रेऽस्य निपातनं नाम्नां व्युत्पत्तिरव्यवस्थितेति ज्ञापनार्थम् ॥६४०-६४२॥ १५
४४१. मक्ष रोपे । मक्षति । घञ् मक्षः। मक्षिका । यूकामक्षिकमत्कुणम् इति छान्दसम् ॥६४३॥
४४२. वक्ष संघाते । प्रसुन् (दश० उ० ६।४६) वक्षः ॥६४४।।
४४३. त्वक्ष त्वचने । त्वचनं त्वचोग्रहणम् । संवरणमिति दुर्गः । त्वष्टा ॥६४५॥
१. 'तष्टम्' पाठा० । २. 'वा निसनिक्षनिन्दाम्' इति काशिकादिषु पाठः । ३. चान्द्रे 'स्तृक्ष' इत्येव पाठः ।
४. 'मुक्ष संघाते-मुक्षति, मुक्षः' इति काशकृत्स्नधातुपाठकन्नडटीकायां पाठः (पृष्ठ ४१) ।
५. 'मकुणम्'पाठा० । ६. 'वक्ष रोषे' इति काश० धातु० पृष्ठ ४१ ।
७. 'तक्ष वचने-तक्षति (वक्ति), तक्ष: (वाचक:)' इति काश० धातु० पाठः (पृष्ठ ४१)।
८. उद्धृतमिदं पुरुषकारे (पृष्ठ ११५)।
२५