________________
१०
क्षीरतराङ्गण्यां
४३०. गाहू विलोडने । विलोडनं परिमलनम् । गाहतेऽम्भः । गाढा, गाहिता । गाढः ।। ६३० ।।
६६
२५
४३१. ग्लूहू' ग्रहणे । ग्लहते । ग्लाढा, ग्लहिता । गृहू इति चन्द्रदुगौ (चा० धा० १।४७३) ॥६३१॥
1
४३२ घसि' करणे । घंसते । चन्द्रो घषि' इत्याह - घंषते । घुषि कान्तिकरण इति दुर्ग:- घंषते ॥ ६३२ ॥
४३३. उदात्ता श्रनुदात्तेतः ।
[ श्रथ सेट: परस्मैपदिनः ]
४३४. घुषिर शब्दार्थ:' । इतोऽर्हपर्यन्ताः ( ११४८८ ) प्रष्टाशीतिः सेटः परस्मैपदिनश्च । घोषति । प्रघुषत्, प्रघोषीत् । घुषिरविशब्दने (७।२।२३) निष्ठायां नेट् - घुष्टा रज्जुः । नेह - संघुषितं वाक्यम् । चुरादौ घुषिर विशब्दने (१०।१७२) घोषयति । इत्नुच् घोषयित्नुः
॥६३३॥
१५
४३५. अक्षू व्याप्तौ संघाते च । प्रक्षोऽन्यतरस्याम् ( ३।१।७५ ) इनुः - प्रक्षति प्रक्ष्णोति । अष्टा, अक्षिता । अक्षम् । अक्षरम् ।।६३४।। ४३६ तक्षू त्वक्षू तनूकरणे । तनूकरणे तक्ष: ( ३।१।७६ ) इति
१. इल: पूर्व 'ग्रह' इति क्वचिदधिकम् ।
२. सायण: स्वामिमते 'घस' इति पाठमाह (धा० वृ० पृष्ठ ११६) । ३ हेमचन्द्रोऽपि 'मूर्धन्यान्तोऽयमिति चन्द्रः घषते' इति ब्रुवन 'घषि
२० करणे' इति चान्द्रपाठमा | सायणस्तु 'घिषीती दुपधं पेठतुः चन्द्रकाश्यपों' इति (पृष्ठ ११९ ) लिखन् 'घिषि करणे इति चान्द्रपाठं द्योतयति । मुद्रिते चान्द्रधातुपाठे 'घुषिर् करणे' (११४७३ ) इति पठ्यते । काशकृत्स्नीयधः तुपाठे ऽपि 'घुषिर कान्निकरणे इति पठ्यते ( ११५४६, पृष्ठ ६० ) । कोऽत्र चान्द्र: पाठ इति सुधियो निर्णयन्तु । 'घुषिर' पाठ इरित्त्वमसंबद्धम्, श्रात्मनेपदीनां प्रकरणे ४, उद्धृतमिदं पुरुषकारे ( पृष्ट १११ ) ।
पाठात ।
५. स्मृतमिदं पुरुषकारे (पृष्ठ ११०) धातुवृत्तौ (पृष्ठ ११६ ) च । ६. गौः' इत्यधिकं क्वचित् ।