________________
— स्वादिगणः (१)
१५
४२३. बर्ह बल्ह प्राधान्ये । बहते । वुनि (द्र० ३।१।१५०) बहकः । प्रहः । बल्हः । बल्हिर्देशः, [तत्र] भवे बाल्हिकः। चुरादौ भासार्थों (१०।१६७) बर्हषति, बल्हयति ॥६२०,६२१॥
४२४. वह परिभाषहिंसादानेषु । [वर्हते] ॥६२२॥
४२५. प्लिह गतौ'। प्लेहति । श्वनुक्षन (उ० १११५६) इति ५ प्लीहा ॥६२३॥ ___ ४२६. वेह जेह बाह प्रयत्ने । वेहते । संश्चत्तृपद्वेहद् (उ० १॥ ८६) इति वेहद गर्भघ्नी गौः, विहन्ति इत्येके । वाहते । क्षुब्धस्वान्त (७। २।१६) इति बाहेर्बाढम्, बाहितम्। वह प्रापणे (१७३१) वहति, वहते । वोढा ॥६२४.६२६।। -- ४२७. द्राह निक्षेपे । दाहते । द्राह्यम् । दाह निद्राक्षये इति दुर्गः
॥६२७॥ ४२८. काश दीप्तौ । काशते। कथं चाकशीति' उपधाह्रस्वोऽत्र वक्तव्यः । काशः । प्रकाशः। आकाशः । प्रतीकाशः, नीकाशः, इकः । काशे (६३।१२३) दीर्घः । हनिकुषिनीरमि(उ०२।२) इति काष्ठम्। १५ इन् (दश० उ० ११४६) काशिर्देशः ॥६२८।।
४२६. ऊह तर्के । तर्क उत्प्रेक्षा । ऊहते । उपसर्गादस्यत्यूह्योः (१॥ ३।२६ वा०) इति वा तङानौ-समूहति, समूहते । समूहः । उपसर्गाद्ध्रस्व ऊहतेः (७।४ २३)समुह्यते । परिसमुह्य । समूह्योऽग्निः ॥६२६ .. १. स्मृतं धातुवृत्ती (पृष्ठ)। २. द्र० पृष्ठ १४, टि० ५।
३. क्वचिन्न । प्रात्मनेपदिषु पाठात् 'प्लेहते' इति युक्तम् । __४. स्म्तं धातुवृत्तौ (पृष्ठ ११७) । 'निद्राक्षये' इति क्वाचित्क: पाठः, सोऽपपाठः, दुर्गमते तस्यार्थस्यैव प्रतिपादनात् ।
५. अनश्नन्नन्यो अभि चाकशीति' इति ऋग्वेदे (१।११६४।२०) श्रूयते ।
६: दिवादी 'वाश शब्द (४।५२) इत्यस्य व्यारव्याने कश वश प्रकृत्यन्तरम् २५ इत्याह । __७ समूह्यं सम्पूर्वाद् वहेरिति वृत्तिकारा: (३।१।१३१) । महाभाष्ये तु सम्पूर्वाद् ऊहतेरित्युक्तम् (३।१।१३१) । तत्रैव चोद्धृतं ब्राह्मणम् –'समूह्यं चिन्धीत पशुकाम: .." पशूनेवास्मै समूहति' (का० सं० २११४) इति ।