________________
६४
क्षीरतरङ्गिण्यां ४१७. प्राङः शसि इच्छायाम् । प्राशंसते, प्राशंस्यते । 'पाशंसा। सनाशंसभिक्षामुः (तु० ३।२।१६८)-प्राशंसुः । शन्स स्तुतौ (१॥ ४८१) इत्यस्य शंसति, शस्यते । शस्त्रम् । दुर्गः पाङः शासु इत्याह - प्राशासते प्राशास्यते। आशासित्वा आशास्त्वा । आशा, आशास्तः । प्रदादौ प्राङः शासु इच्छायाम् (२।१५) तङ्-प्राशास्ते । प्राशीः। तथा शासु अनुशिष्टौ (२।७५) शास्ति ॥६११॥
४१८. ग्रसु ग्लसु प्रदने । ग्रसते । ग्रस्त्वा, ग्रसित्वा । ग्रस्तः । प्रस. तेरा च (दश० उ०७।१८; श्वेत० १११२६) इति ग्रामः । ग्रासः। ग्रीष्मः ॥६१२,६१३॥ - ४१६. ईह चेष्टायाम् । ईहते । ईहाञ्चके । ईहिता। ईहितम् ।। ईहा ॥६१४॥
४२०. बहि महि वृद्धौ । बहते । लङ्घिबंहूयोनलोपश्च (उ० १॥ ३०) इति बहु । मंहते। वर्तमाने पृषबृहद् (उ० २।७५) इति महत् । म ही तु महेः पूजार्थात् (१००२५५)॥६१५,६१६।। ___ ४२१. अहि गतौ । अंहते। अंहः पापम् । पाहन्ते? ह्रस्व अहिः । अंह्रिः । त्रयश्चुरादी भासार्थाः (१०।१९७) अंहयति, बंयति मंहयति ॥६१७॥ __४२२: गह गल्ह कुत्सने । गहते । गर्दा । गर्ह विनिन्दने (१०। २३३) चुरादौ वा णिच्-गार्हयति, गर्हति ॥६१८,६१६॥
१. सायण मते 'पाड: शन्सु इच्छायाम् । प्राशंसते, प्राशस्यते' इति पाठ: (द्र० घा० वृ० पृष्ठ ११६) ।
२. पुरुषकारे 'क्षीरस्वामी तु दौर्गा प्राड: शन्सु इत्याह' इति क्षीरतरङ्गिण्या: पाठ उदध्रियते (पृष्ठ ११६)। . ३. 'माशस्ति:' इत्यधिकम् ।
४. 'बहुः' पाठा० । ५. अहि प्लिह वक्रगतौ' इति काशकृत्स्नधातुपाठे पठ्यते (पृष्ठ ८६) ।
६. अपपाठोऽयम । प्राङपूर्वाद्धन्तेर्डप्रत्यये 'अहं' इत्येतत् सिद्ध्यति, न तु 'अहिः । अपि चात्र हन्तेर्न कोऽपि प्रसङ्गः । ७. 'कुत्सायाम्' पाठा० ।
२०