________________
८६
क्षीरतरङ्गिण्यां
५.
त्ङ गेहमुच्चरते उल्लङ्घयतीत्यर्थः ', नेह - उच्चरति ध्वनिः । समस्तृतीयायुक्तात् (१।३।५४) अश्वेन संचरते । चरफलोश्च, उत् परस्यातः (७।४।८७-८८ ) चच्चूर्यते, चञ्चुर: ति च ( ७१४/८६ ) चूति । चरितम् । गदमदचरयमश्चानुपसर्गे ( ३।१।१००) यत्चर्यम् । चरेराङि चागुरौ ( ३|१|१०० वा० ) प्राचर्य उपदेश:, आचार्यो गुरुः । श्राश्चर्यमनित्ये (६।१।१४७) साधु | पचादौ ( गण ३।१।१३४) चरः' । पटच्चरश्चौर: पटश्चरतीति पाटयंश्चरतीति पाटच्चरो' वा । पटच्चरं जीर्णवस्त्रम्, पट इवाचरद् भूतपूर्वम् । प्रज्ञादौ
०
(गण० ५।४।३८) चारः । क्वन् शिल्पिसज्ञयोः ( उ० २।३२) चरको १० मुनिः । चरेष्टः ( ३।२।१६) कुरुचरः, कुरुचरी । भिक्षासेनादायेषु च ( ३ । . २।१७ ) इति ट: - भिक्षाचरः, सेनाचरः, आदायचरः । श्रलङ्कृन्निराकृञ (३।२ १३६) इतीष्णुच् - चरिष्णुः । गोचरसञ्चर ( ३।३।११६) इति द्वौ साधू । इच्छा ( ( ३ | ३|१०१ ) इत्यत्र परिचर्या साधुः । लोकाच् चर्या परिव्राजकादीनां ध्यानाद्युपाये स्थितिः । युच् - ( द्र० १५ ३।२।१४८ ) चरणः । ल्युट् ( द्र० ३ | ३ | ११५ ) - चरणम् । श्रर्तिलूधूसूखनसहचर इत्रः ( ३।२।१८४) चरित्रम् । चरेवृ त्ते ( उ० ४।१७१ ) त्रिन् - चारित्रम् । ख निकष्यञ्जयति ( उ० ४।१३१ ) इती: - चरि: प्राकाराग्रम् । इण् – चारिः । हृसनिजनि ( उ० १1३ ) - इत्युण् - चारुः । भृमृशृतचरि (तु० उ० १७ ) इत्यु: - चरुर्हव्यपाकः । चरेदच (उ० ५।६९) इत्यमच्- चरमः । क्तिन्-- ( द्र० ३ | ३ | ६४ ) चूर्तिः, ब्रह्मतिः । चरितं चर्म ( द्र० ३।३।२ काशिका ) ॥
३७३. ष्ठिवु निरसने । न सुब्धातुष्टिवष्वक्कीन | म ( तु० ६ | १ | ६४ वा० ) इति धात्वादेः षः सो नास्ति, ष्ठिवुक्लस्वाचमां शिति (तु०
२०
१. 'तङन्तौ — गेहमुच्चरते लङ्घयतीत्यर्थः, गेहमुच्चरमाण:' इति पाठा० । अत्र 'तङन्ती' इत्यस्य स्थाने 'तङानी' युक्तः पाठः ।
२५
३०
२. 'चर' पाठा० ।
३. 'पटच्चर:' पलद्यादिगणे ( ४ । २ । ११० ) पठ्यते । तेनात्र तुगागमो द्रष्टव्य । पटच्चरशब्दसादृश्यात् पाटच्चर इत्यत्रापि तुक् ।
४. इच्छासूत्रस्थे 'परिचर्यापरिसर्यामृगयाटाटयानामुपसंख्यानाम्' इति वार्तिके निपातनात् साधुरित्यर्थः ।
५. केवल, चर्याशब्दो लोके ध्यानावुपायें स्थित्यर्थे च प्रयुज्येत । स च 'गदमदर' (३|१|१०० ) इत्यादिना व्युत्पाद्यते (द० क्षीर० अमरटीका २।७।३५) ।