________________
भ्वादिगणः (१) खलितः खल्वाटः । खल्वं गभीरम् । खलीनमश्वमुखावरणम् ॥५३४। .. ३६४. गल अदने । गलति । गलः । स्रवणेऽपि अनेकार्थत्वात् । उणादौ गल्लः कपोलादिः, गल्वर्कः स्फटिकः । गलेश्च (दश० उ० ७।१४) इति गुल्फः । चुरादौ गल लावणे (१०।१४६) तङि-उद्गालयते ॥५३॥
३६५. सल गतौ । सलति । सलिलम् । सालः ॥५३६।।
३६६. दल विशरणे। दलति उषिकुटिदलिकचिखजिभ्यः कपन् (उ० ३।१४२) दलपः । दलम । मित्त्वाद् (धा० सू० ११५५३ व्याख्याने) दलयति । चुरादौ (१०।१६६) दालयति ॥५३७॥
३६७. शल श्वल्ल प्राशुगमने । शलति । अतो लान्तस्य (७।२।२) १० इति वद्धिः-प्रशालीत् । उणादौ (द्र० उ० ४।६५) शुत्वं तानं रज्जुश्च । शुल्कम् ।।५३८, ५३९॥
.३६८. खोऋ खोल गतिप्रतिघाते । खोरति । खोरा अधमा स्त्री । खोरिका पात्री। खोर, खजः । खोड इति दुर्गः- खोड: कुणिः । खोलं शिरस्त्रम् ॥५४०, ५४१॥ ___ ३६६. धोक्र गतिचातुर्ये । घोरति । अदुधोरत् । प्राधोरणो हस्तिपकः । घोरितम् । घोरितकम् अश्वगती ।।५४२।। __ ३७०. त्सर छद्मगतौ । छदमप्रकारार्थे । त्सरति । भृमृशी (उ०
११७) इत्युः-त्सरुः खड्गादिमुष्टिः । त्सम इत्यपीति कौशिक:त्सद्मति ।।५४३॥
३७१. अभ्र बभ्र मभ्र चर गत्यर्थाः । अभ्रति । अभ्रम् । बभ्रति । कृत्रो द्वे च कुर्धश्च (तु० उ० १।२२,२३) इति बभ्रुर्नकुलः । मभ्रति । चरति ॥५४४-५४७।।
३७२. चरिभक्षणेऽपि । उदश्चरः सकर्मकात् (१।३।५३) इति १. क्वचिन्न । २. 'गाल' इति भाषायां प्रसिद्धम् । ३. गल्लक:' पाठा० । ४. 'स्फटिका' पाठा०। . ५. 'शुल्कं' क्वचिन्न । . ६. राजस्थानभाषायाम् 'खोड़ा' इति प्रयुज्यते । ७. 'आधोरण: करिपक:' पाठा । ८. 'याकृनोद च' इत्यपपाठः ।
२५