________________
३४४. त्रिफला विशरणे । फलति, प्रतिफलति, उत्फलति, तृफलभजत्रप [श्च ] ( ६ |४| १२२ ) इति लिटये त्वाभ्यासलोपो – फेलुः । फलकं क्वन् शिल्पिसंज्ञयो: ( उ० २।१३२ ) । फलहकस्तूणादौ' | चरफलोश्च उत्परस्यातः । ( ७।४।८७,८८) पम्फुल्यते । ति च (७ ४८६) वर्तमाने त्रोतः क्तः ( ३।२०१८७ ) प्रफुल्लः । अनुपसर्गात् फुल्लक्षीब ( ८।२।५५ वा० ) इति क्ते फुल्लः साधुः । उत्फुल्लसम्फुलौ १० वक्तव्यात् ( द्र० ८।२।५५ वा० ) उपसर्गे प्रफुल्लः, प्रादितश्च ( ७ २।१६ ) इती नास्ति । विभाषा भावादिकर्मणो (७/२/१७) फुल्लमनेन फलितमनेन, प्रफुल्लः, प्रफुलितः । फलिपाटि ( उ० १।१६ ) इति फल्गुरसार:' । फल्गुनी । फल निष्पत्तौ ( १ । ३५ ) इत्यस्मात् फलितः । फुल्ल विकसने ( १ ३५७ ) फुल्लितः ।। ५०८ ।।
१५
५
८२
क्षीरतरङ्गिण्यां
संज्ञयो: ( उ० २।३२ ) । श्रलिन्दः । अलिकं ललाटम् । अलीलम् । अलिभ्रंमरः, आलिश्च । प्रालिः सखी, पङ्क्तिश्च । अलर्को रोगितः श्वा । अलक्तकम् अरक्तकन्तु रलयोरैक्यात् ॥ ५०७ ॥
1
२०
I
३४५. मील श्मील निमेषणे । निमेषणं सङ्कोचः । मीलति । प्रमीला तन्द्री | मीलनम्। भ्राजभाष [ भाष ] 'दीप ( ७/४१३ ) इत्युपवाह्रस्वो वा - प्रमिमीलत् प्रमीमिलत् । लौकिकात् मिले: - मिलति, मेलनम् । इमोल स्थाने क्ष्मीलेति चान्द्रा : ( चा० घा० १।१६२) ।। ५०६,५१०।।
३४६. पील प्रतिष्टम्भे । प्रतिष्टम्भो रोधनम् । पीलति । पील
१. 'एकत्वात् ' पाठा० ।
२. 'फलहक' शब्दो हैमोणादे: ( ३३ सूत्रस्य ) स्वोपज्ञवृत्तेरन्ते पठ्यते । ३. ' फल्गु असारम्' पाठा० । ४. द्रष्टव्यः १।३७५ धातुसूत्रे ।
५. सायणादयस्तुदादी 'मिल श्लेषणे' इति पठन्ति । क्षीरस्वामी तु 'हिल २५ हावकरणे' (६।६८ ) सूत्रव्याख्याने दुर्गमतेन मिल-धातु पठति, न स्वमतेन । अत एवात्र लौकिकात् = लोकप्रसिद्धान्न तु शास्त्रपठिताद् इति विशेषणमुपादत्ते । ६. 'मिलति न खलु यस्या:' इति नाट्यशास्त्रस्य ( श्र० १४, श्लो० ३० ) अभिनवगुप्तकृतायां व्याख्यायामुद्भियते (भाग२, पृष्ठ २३२, बडोदा संस्क ० ) ।
,
७, 'रोध' पाठा० ।