________________
भ्वादिगणः (१)
८३ नम् । क्वसु-नेड् वशि कृति (७।२।८)-पिपील्वान् । खरुशङ कु(उ० १॥३७) इति बाहुलकात् पीलुः' । पिपीलकः, पिपीलिका ॥५११॥
३४७. णील वर्णे। वर्णोपलक्षितायो क्रियायाम् । यथा-श्वेतं नोलति मरकतकान्त्या'। प्रणीलति । नीलम्, नीली, नीलः, नीलगुः क्रिमिः ॥५१२॥
३४८. शील समाधौ। समाधिरैकाग्रयम् । परिशीलति । अनुशीशीलितः। शिलिकामि (३।२।१ वा०) इति णः-मांसशीलः । शैलूषो नटः, बाहुलकात् । शिलूषापत्यमित्येके । चुरादौ (१०।२६४) शोलयति ॥५१३॥ ___३४६. कील बन्धे । कीलति । उत्कीलितः । कीलकः। कीला। १९ कीलालम् । कीलिर्धात्वर्थे । णिच्-कीलयति ॥५१४॥
३५०. कूल प्रावरणे । अनुकूलति । कूल्यतेऽम्भसा कूलम् । कुल संस्त्याने (११५७९) अस्मात् कुलम् । करोतेढे च (तु० ६।१।१२ वा०) इति चकारात्-कुकूलं तुषाग्निः ॥५१५॥
३५१ शूल रूजायाम् । शूलति । अच्–शूलम् ॥५१६॥ १५
३५२. तूल निष्कर्षे । निष्कर्षो वस्तुनिःसारणम् । तूलति । तुलं तूलिस्तूलशय्या, शलाकायान्तु तूलिका ॥५१७॥ ..
३५३. पूल संघाते । पूलति । पूलः । पूली तृणोच्चयः ।।५१८॥
३५४. मूल प्रतिष्ठायाम् । मूलति । मूलम् । उन्मूलयति क्लेशान् । उन्मूलितः । चुरादौ मूल रोहणे (१०।५८) मूलयति ॥५१६॥ . २०. ३५५. फल निष्पत्तो। निष्पत्तिः सिद्धिः । फलति । फलितः ।
१. पीलुः हस्ती (काश० धातुव्याख्यानम् पृष्ठ ३२) तदस्यास्तीति पीलु. मान् हस्तिमकः । तस्यैव 'पीलवान्' इत्यपभ्रंशः । पीलुरिति हस्त्यर्थे म्लेच्छप्रसिद्ध इति कुमारिलभट्टः (तन्त्रवात्तिक ११३।९) । मीमांसाशास्त्रीयार्यम्लेच्छ, प्रसिद्धार्थाधिकरणविषये विशेषविचार: 'संस्कृत व्याकरण शास्त्र का इतिहास' ः ग्रन्थस्य प्रथमाध्यायान्ते (पृष्ठ ४६, च० संस्क.) द्रष्टव्यः।। २. अनुपलब्धमूलम् ।
३. 'नील कुट्टिम:' पाठा० । ४. पशुबन्धनी रज्जूर्यस्यां निबद्धयते, 'कीला खूटा' इत्येवं प्रसिद्धः। ५. कीलिबन्धनमित्यर्थः । ६. 'संवरणे' पाठा०। ७. अनुपलब्धमूलम् ।