________________
भ्वादिगणः (१)
३३६. सूयं ईय ईर्ण्य ईर्ष्यार्याः । ईर्ष्या कामजमसहनम्' । क्रुध. दुहेा (१।४।३७) इति सम्प्रदानम् -चैत्रायेय॑ति । ईय॑तेस्तृतीयस्य(६।११३ वा०)एकाचो द्विवचनम्-ईष्यि षिषति । व्यञ्जनस्य इत्येके' - ईष्यियिषति । ण्यन्ताच्चङि तृतीयकाचोऽभावाद द्वितीयस्यैव द्वित्वम्, तृतीयाभावेन वात्तिकाप्रवृत्तेः, ततश्च हलादिशेषाद् (द्र० ७।४। ५ ६०) अभ्यासे षकार एव श्रूयते-ऐर्षिष्यत् । व्यञ्जनस्येति पक्षे यकारस्यैव द्वित्वम्-ऐष्यियत् ।।५०१.५०३।।
३४०. हय गतिकान्त्योः । हयांत । हयः ।।५०४॥
३४१. शुच्यी अभिषवे । अभिषवो द्रवेनाद्रवणम्, परिवासनम् ।। स्नानमिति चान्द्राः । शुच्यति । लिट्-शुशुच्य । शुक्तः–यस्य हलः १० (३।४।४६) इति यलोपः । चुच्यी' इति दुर्गः ।।५०५॥
३४२. हर्य गतिकान्त्योः । हर्यति । हर्यतेः कन्यन् हिर च (उ० ५४४) हिरण्यम् ॥५०६॥ • ३४६. अलाँ' भूषणपर्याप्तिनिवारणेषु । पचतिवत् सानुनासिक ... इतीत्संज्ञार्थः । अलति । अलकापुरी। अलकाः केशः, क्वन् शिल्पि- १५
१. 'असहिष्णुत्वम्' पाठा०।
२. 'ईर्ष्णतेस्तृतीयस्य द्वे भवतः' इति वात्तिकव्याख्याने 'केचिदाइ:- एकाच इति - ईष्यिषिषति । अपर प्राह व्यञ्जनस्येति-ईष्यियिषति' इति भाष्यम् (६।१।३) द्रष्टव्यम्।
३. नेदं वचनमन्यत्र थू यते। ४. चान्द्रधातुपाठव्याख्याने पूर्णचन्द्रः- 'अभिषवः स्नानविशेषः' (द्र० चान्द्र २० धातुपाठ पृष्ठ ६ टिप्पणी)।
५. श्वीदितो निष्ठायाम् (७।२।१४) इतीनिषेधः, सायणस्तु 'शुच्य' इति पठित्वा शुच्यितः' इत्युदाहरति (धा० वृ० पृष्ठ १०३)।
६. ईदित्वान्निष्ठायां चुक्तः । अनीदित्वे चुच्यितः । काशकृत्स्नीये धातुपाठे शुची शुची पाठो दृश्यते (पृष्ठ ३१)।
' ७. 'अल'इति सायणादयः । क्षीरस्वामिमते तु आदित्त्वे 'पादितश्च' (७।२। १६) इतीनिषेधे 'अल्तः' । सायणादिमते 'अलित:' इति भेद: । काश कृत्स्नस्तु 'मला' (११६८६, पृष्ठ ११४) इति पठति । तेन अलति अलते इत्युभयं भवति । लकारोत्तरवर्तिन उदात्ताकारस्येत्वात् इट् -अलितः । एवमव कातन्त्र धातुपाठेऽपि पठ्यते।
३०