________________
८०
क्षीरतरङ्गियां ३३३ कल्ल प्रशब्दे। प्रशब्दे तूष्णीम्भावे' । कल्लते। कल्लः । कल्लोलः ॥४८॥ - ३३४. तेवृ देव देवने। तेवते, अतितेषत् । देवते, अदिदेवत् । अतिकमिभ्रमि(उ० ३।१३२)इत्यरः - देवरः । शकादिभ्योऽटन् (उ० ४।८१) देवटः ऊर्णावृत्तिः । वृषादिभ्यश्चित् (उ० १।१०८) देवलः । दिवादौ (४।१) दीव्यति । चुरादौ दिवु परिकूजने (१०।१:५२)देवयते, प्राकुस्मात् (१०।१२३) तङ्, अदीदिवत, तथा दिवु प्रर्दने (१०।१७०) परिदेवयति ॥४८६,४८७॥
३३५. एव'शेव षे सेव के खेव ग्लेव पेव प्लेव मेव म्लेव सेवने । सेवते, सिषेवे, असिषेवत् । अषोपदेशस्य सिसेवे, असिसेवत् । परिनिविभ्यः सेव (८।३।७०) इति षत्वम्-निषेवते। अव्यवायेऽपि (८। ३१७१) इति पर्यषेवत । स्तौतिण्योरेव षण्यभ्यासात् (८।३।६१) इति नियमे प्राप्ते स्थादिष्वभ्यासेन चाभ्यासस्य (८।३।५४) इति षत्वम्निषिषेविषते । केवते, उणादौ युक्तम्', वृषादिभ्यश्चित् (उ० १॥ १०८) इति कल-केवलः ॥४८८॥
३३६. रेव प्लुतिगतौ । प्लुतिभिर्गतौ। रेवते। रेवा नर्मदा। रेवती तु रीङो (४।२८) रूपम् ॥४६६॥
३३७. उदात्ता अनुदात्ततः।
१०
[अथ सेटः परस्मैपदिनः] ३३८. मव्य बन्धने । इतोऽवान्ता (१।३६२) अष्टाशीतिः सेट: परस्मैपदिनश्च । मव्यति । मव्यः ॥५००॥
१. उद्धृतमिदं धातुवृत्तौ (पृष्ठ १०) सिद्धान्तकौमुदयां (भाग ३ पृष्ठ १५१) च।
२. 'एव' इति सर्वकोशेषु पाठः । 'गे' इति तु युक्तः पाठः, स्यात् ।
३. अस्पष्टार्थोऽयम् । कदाचिदत्र 'केवृ धातुः केवलशब्द एव प्रयुज्यते, स चौणादिकः, ततश्चायं धातुरोणादिक एव, इत्यभिप्रायः स्यात् ।
४. 'मव्यः' क्वचिन्न।