________________
भ्वादिगण: (१)
७६
१।१०) इति वल्गुः । वलिमलितनिभ्यः कथन (उ०४।६६)-वलयः । वलीकं (द्र० उ० ४।२५) पटलप्रान्तः। अयं दन्त्योष्ठ्यादिः, बल प्राणने त्वोष्ठयादिरित्याहुः-बलम्, बलिरूपहारः, बालः, बलाका, बल्वजः । वल वल्ल इति दुर्गः तथोपक्रमात् । वल्लूरं शुष्कमांसम् । वल्लवो गोधुक् । वल्लभः प्राणप्रियः । वल्ली, वल्लरो, वल्ला ॥४७॥ ५
३३० मल मल्ल धारणे । मलते । मल्यते । माला। मालती तरुभेदः । मलम् । मलयः। मालयति । चुराद्यन्तात् मलयतीति भट्टिः । घे-घन्ध भङ्गिः परिमलः' । मल्लते । मल्लः। मल्लकः पात्रम् । मल्लिका मल्लीपुष्पम् ॥४८०,४८१॥
३३१. भल भल्ल परिभाषहिंसादानेषु। भलते। ऊक:-(द्र० १० उ० ४।४०) भलूक ऋक्षः । भल्लते उलूकादौ (द्र० उ० ४।४१) भल्लकोऽच्छभल्लः । भल्ल: क्षरप्रः। भल्लिः । भल्लटः । चुरादौ भल प्राभण्डने (१०।१४७) तङानी'-विभालयते । भालूकः ॥४८२,४८३
'३३२. कल शब्दसंख्यानयोः। कलते । आकलते, सङ्कलते, परि. कलते प्रत्याकलते, विकलते। अच-कलः । कल्यते-काल., घञ् । १५ कलनीयम् । कल्यम् । काल्यं प्रभातम्, काले साधु वा। कलितम् कलिः । कलिका । कर्दिकडेरमच् (तु० उ० ४।८४)-कलमः । पकलिभ्यामुषच (दश० उ० ६।१५)--- कलुषः । उणादौ । कल्मषम्, कल्माषः । कल्योऽघ्न्यादौ (द्र० उ० ४।१११) कलासु साधर्वा । कलायः सतीनकः। कलितं व्याप्तं गहनञ्च। कललं शुक्रशोणित- २० .मलम् । चुरादौ कल संख्याने (१०।२५३) अदन्तः -- कलयति । कलना, कला बाहुलकात् । कल किल पिल क्षेपे (१०॥५३) इत्यस्मात् कालयति, काल , कालनम,कालना. कालि: । कालिका तु मेघजालम, मनोज्ञादौ (द्र० गण० ५ १११३३) ॥४८४॥
१. अनुपलब्धमूलमू । 'सुरभिमाल्यगन्धादिपरिमर्दनोत्पन्नो हृद्यो गन्धः २५ परिमल:' इति प्रमरटीकायां (पृष्ठ ४०) क्षीरस्वामी ।
२. 'तङादी' पाठा० । 'तङानो' शुद्ध पाठान्तरं द्रष्टव्यम् । अत्र पूर्वा टिप्पणी (पृ० ४६ टि० ४) अवलोकनीया।
३. 'कदिकड्योर.' पाठा० ।