________________
७८
क्षीरतरङ्गिण्यां यते । दीपजनबुध (३।१।६१) इति कर्तरि वा चिण्-प्रप्यायि, अप्यायिष्ट । पीनः, प्यायः पी (६।१।२८) स्वाङ्गे', प्रोदितश्च (८1 २०४५) इति निष्ठानत्वम् अन्धधसोराङीति वक्तव्यात् (३।१।२८
वा०) पापीनोऽन्धः आपीनमूधः। नेह-प्राप्यानश्चन्द्रमाः। लिड्य५ ङोश्च (६।१।२६) इति पी-प्रापिप्ये, आपेपीयते। कृत्यच (८।४।
२६) इति प्राप्ते न भाभूपूकमिगमि (८।४।३४) इति णत्वं नास्तिप्रप्यानः ।। ४७५,४७६।।
३२७ ताय सन्तानपालनयोः। सन्तानःप्रबन्धः । तायते। अत. तायत् । दीपजनबुधपूरि (३।१।६१) इति कर्तरि वा चिण् - अतायि, १० प्रतायिष्ट । तय रक्षणे (१॥३१९) तयते, अतीतयत् ॥४७७॥
३२८. शल चलनसंवरणयो, । शलते । शलतीति - शल हुल पत्लु गतौ (११५८०) तथा शल श्वल्ल पाशुगमने (१।३६७) । इण् भोकापा (उ० ३।४३) इति शल्कः काष्ठत्वक । शलिपटिपतिभ्यो नित
(दश० उ० ३।३३) शलाका । कृशशलि (उ० ३।१२२) इत्यभच्१५ शलभ । शलिमण्डिभ्यामका (तु० उ० ४।४२) शालकः । शललं
शलञ्च श्वाविल्लोम । सानसिवर्णसिपर्णसितण्डुलाङ्कुशचषालेल्बलधिष्ण्यशल्या(उ० ४।१०७) इति शल्यम् । शल्यकः श्वावित् ॥४७॥
. ३२६. वल संवरणे । वलते त्रपोद्वलितः । वालाः केशाः ।
वाल्मीकम् । ज्वलादो वल प्राणने (११५७६) वलति । चुरादौ मित् २० (१०८०)-वलयति । शुकवल्कोल्का (उ० ३।४२) इति वल्कः । इन् (दश० उ० ११४६)-वलिस्त्वक्सङ्कोचः । वलेगश्च (तु० उ०
१. स्वाङ्ग एव 'पी' भाव इति त्वन्यत्र न दृष्टम्, व्यवस्थितविभाषया कथंचिल्लब्धं शक्यते । प्रत्र काशिका (६।२।२८) द्रष्टव्या।
२. ज्वलादिस्थं 'बल प्राणने' धातु दन्त्योष्टयादि मत्वेहोदाजहार क्षीर२५ स्वामी, तदीयामरटीकायाः 'वल्यते वाल:, ज्वलादित्वाण्णो वा, ज्वलिति
कसन्तेभ्यो ण: (३।१।१५०) इति वचनादपीदमेव प्रतीयते । प्रत इहैव स्वामी 'प्रयं दन्त्योष्टयादिः, बल प्राणने त्वोष्ठ्यादिरित्याहुः' इति मतान्तरे ज्वलादिस्थमोष्ठयादिमाह । उज्ज्वलदत्तोऽपि 'बलेर्गक च' (उ० १।२०) इत्यत्र
दन्त्योष्ठयादिवल्गुपदसिद्धये ज्वलादिस्थमुदाहृतवान् । वस्तुतस्त्वयं दन्त्यो३० ष्ठ्यादिः, ज्वलादिस्थश्चौष्ठ्यादिरेव। ३. 'वलेगुक् च' इत्येवं शुद्धः पाठः ।