________________
भ्वादिगणः (१)
७७ १५८) इत्यालुच् - दयालुः । भिदादित्वाद् (द्र० ३।३।१०४) दया । दयितम् । देङ् रक्षणे (११६८१) मातरं दयते, दीयते, दाता ॥४६६॥
३२१. रय गतौ । रयते रयः । निरयः ॥४७०॥ ३२२. ऊयी तन्तुसन्ताने । ऊयते । ऊयिता। ऊयाञ्चक्रे । श्वोदितो निष्ठायाम् (७।२।१४) नेट्-ऊतः ॥४७१॥ ___३२३. पूयो विशरणे दुर्गन्धे च । पूयन्ते' यवाः । व्रणः पूयते। पूयिता । पूतः, पूतिः ।।४७२॥ ____३२४. क्नूयी शब्दे उन्दने च। उन्दनं क्लेदनम् । क्नूयते । कनूयिता । क्नूतः । न यः (३।२।१५२) इति युज् नास्ति, अतस्तच्छीलादौ कर्तरि तृन् एव-क्नयनशीलः क्नयिता। अतिहीली (७।३। १० ३६) इति णौ पुक्-क्नोपयति । चेले क्नोपेः (३।४।३३) इति णमुल् - वस्त्रक्नोपं वृष्टो देवः ॥४७३॥ ३२५. क्ष्मायी विधूनने । क्ष्मायते । क्ष्मापयति । क्ष्मातः ॥४७४।।
३२६. स्फायी प्रोप्यायी वृद्धौ । स्फायते । स्फायो वः (७।३।४१) . इति णौ वत्वम् - स्फावयति ।। निष्ठायां स्फायः स्फी (६।१।२२) १५ स्फोतः। ईदित्वं स्फायेरादेशानित्यत्वे लिङ्गम् -स्फातः । उणादौ फेनः, स्फिरो बहुः । स्फायो (उ० २।१३) इति रक् - स्फारम् । प्या
१: विपूयन्ते' पाठा०। २. अयं भावः—यदि निष्ठायां नित्यं 'स्फी' भावः स्यात्तर्हि ईदित्त्वमनर्थक स्यात् । ईदित्त्वस्य तु 'श्वीदितो निष्ठायाम्' (७।२।१४) इति निष्ठाया- २० मिटप्रतिषेध एव फलं, नान्यत । तस्माद्वयर्थं सज्ज्ञापयति 'फी' भावोऽनित्य इति । कातन्त्रव्याख्यात्रा दुर्गसिंहेनापि ईदनुवन्धबलादादेशोऽयमनित्य इत्यु. च्यते (द्र० सर० कण्ठा० व्याख्या, भाग ४, भूमिका पृष्ठ १९) । मुग्धवोधेऽपि 'स्फाय: स्फी वा' (क्तादिः, सूत्र १०७६) इति पठ्यते । सरस्वतीकण्ठाभरणव्यारव्याता दण्डनाथस्तु 'स्फाय: स्फी' (६।११३७) इति सूत्रे 'वाम्यवाम्' (६। २५ १॥३७) सूत्रतो वा' पदमनुवत्यं स्फीभावं विकल्पेनाह-स्फीत: स्फीतवान्, स्फात: स्फातवान् इति । तथा सति 'स्फातीभवति' इति प्रयोगोऽप्युपपद्यते । एव च सति 'स्फातीभवति इत्येतदपि क्तिन्नन्तस्यैव रूपं. न निष्ठान्तस्य' इति यत् काशिकावचनं (६।१।१२) तत् क्लिष्टकल्पना-मात्रम् । धातुवृत्तिकारस्तु भनुदात्तत्त्वार्थमीदित्करणमाह (पृष्ठ ११)तदप्यसत्, अनुदात्तेत्त्वार्थ- ३० न्त्वन्यत्रेवेहाप्यकारस्यानुबधु शक्यत्वात् ।