________________
भ्वादिगणः (१)
७५ ३१५. चमु छमु जमु झमु अदने । चमति, विचमति । ष्ठिवुक्लम्वाचमां शिति' (७।३।७५) इति दीर्घः- आचामति । न कम्यमिचमाम् (११५५७) इति मित्त्वं नास्ति-प्राचामयति । प्रासुयुवपि (३।१। १२६) इति ण्यत्- प्राचाम्यम् । नोदात्तोपदेशस्य मान्तस्यानाचमे: (७।३।३४) इति वृद्धिनिषेधाभावः-आचामक. । कृषिचमि (उ० ११८२) इत्यू:-चमूः । प्रव्यविचमि (उ० ३।११७) इत्यसन्चमसः । कृदरादयश्च (उ० ५।४१) इति चमरः। उदितो वा (७।२। ५६) इट- चान्त्वा चमित्वा । प्राचान्तः, आचामः । आच्छमति : अाच्छामः । जमति । इदुपधोऽयमित्येके -जेमनम जेमः । झमति
॥४५७-४६०॥ १० ३१६. क्रम पाद विक्षेपे । पादन्यासेऽर्थे । क्रमः परस्मैपदेष (७। ३।७६) इत दीर्घः - क्रामति । वृत्तिसर्गतायनेषु (१।३।३८) इत्या.. त्मनेपदम् - ऋक्ष्वस्य क्रमते बुद्धिः, न प्रतिहन्यत इत्यर्थः, युद्वाय क्रमते, उत्सहत इत्यर्थः, प्राज्ञे शास्त्राणि क्रमन्ते, स्फीतीभवन्तीत्यर्थः । प्राङ उद्गमने (१।३।४०) आक्रमते नभोऽर्कः । ज्योतिरुद्गमन इति वक्त- १५ व्यात् (द्र० १।३।४० वा.) नेह-पाक्रमति धूमो हम्यंतलम् । वेः पादविहरणे (१।३।४१) साधु विक्रमतेऽश्वः, नेह-विक्रामत्यजिनसन्धिः । प्रोपाम्यां समर्थाभ्याम् (१।३।४२) प्रक्रमते भोक्तुम्, उपक्रमते । अनुपसर्गाद् वा (१।३।४३) क्रमते कामति । स्नुक्रमोरनात्मने. पदनिमित्ते (७।२।३६) इतीट-प्रक्रमितुम्, चिक्रमिषति, चिक्रमिषा, चिक्रमिषुः, नेह-प्रचिकंसते । उदितो वा (७।२।५६) इट् -ऋमित्वा क्रान्त्वा, अनिट् पक्षे क्रमश्च कित्व (६।४।१२) इति वा दीर्घः क्रन्त्वा। उणादो क्रमुकः । नित्यं कौटिल्ये गतौ (३।१।२३) य--चक्रम्यते। जुचक्रम्य (३ २।१५०) इति युच्-चक्रमणः। घत्रि नोदात्तो
१. अयं काशिकासम्मतः पाठः । अन्यत्र 'ष्ठिवुक्लमुचमा शिति' इत्येवं २५ पठ्यते।
२, धातुवृत्ती स्मृतम् (पृष्ठ ६५) । काशकृत्स्नधातुपाठेऽपि 'जिमु । अदने' पठ्यते (२।२२०, पृष्ठ १९) । अस्यैव 'जिमु' धातो राजस्थान (मार. " वाड़ी) भाषायाम् 'जीमना' पदं प्रयुज्यते । ३. 'पद०' इति पाठा० ।
४. 'हर्म्यतलात्' इति महाभाष्ये पाठान्तरम् । अत्र नागेशीय उद्योतो ३० द्रष्टव्य: (११३:४०) ।