________________
भ्वादिगणः (१)
कन्या'। कान्तः॥४४८॥
३१०. स्तन ध्वन शब्दे । स्तनति । स्तनितम् । स्तनः । स्तानयति । चुरादावदन्तः स्तनगदी देवशब्दे । (१०।२४८) मेघः स्तनयति । अभिनिसः स्तन: शब्दसंज्ञायाम् (८।३।८७) षत्वम्-अभिनिःष्टानो विसर्ग: । ध्वनति । ध्वानः, ध्वनिः । क्षुब्धस्वान्तध्वान्त ५ (७।१।१८) इति ध्वान्तं तमश्चेत्, ध्वनितमन्यत्। चरादौ अदन्तः (१०।२७५) ध्वनयति ॥४४६, ४५०॥
. ३११. वन षण भक्तौ । भक्तिर्भजनम् । वनति । वनम् उदकम् । वनिता । ऋतन्यजि (उ० ४।२) इति वनिष्ठ पुष्पान्त्रम् । उणादौ-- वानरः, वानीरो वेतसः । तनादौ वनु याचने (८1८) वनुते, वनोति । १० सनति । सनो ये विभाषा (६।४।४३) आत्त्वम्-सायते सन्यते । कथं सन्यात् ? ये इत्यदन्ते ये परे विधानात् । सनीवन्तर्ध (७।१४६) इति वेट-सिसनिषति, स्तौतिण्योरेव षण्यभ्यासाद् (३।६१) इति नियमात् षत्वं नास्ति। सिषासति सनोतेरनः(८।३।१०८) इति
१. अस्मादेव धातो: कन्यार्थक: कनीना शब्दः, यस्य 'कानीन' इति ताद्धितं रूपम् । विशेषस्त्वत्र अस्मदीये 'संस्कृत व्याकरण शास्त्र का इतिहास' (भाग १, पृष्ठ ३३,च०संस्क०) पुस्तके द्रष्टव्यः ।
२. ष्टन ध्वनेति क्षीरस्वामी' इति पुरुषकार: (पृष्ठ ६०)। अज्दन्त्यपरा: सादय: षोपदेशा: (प्र. ६।११६४) इति भाष्यवचनात् षोपदेश एवायम् । क्षीरत रङ्गिण्यां कदाचित् पाठभ्रशो जात: स्यात् । ३. 'मेघ शव्दे' पाठा०। २०
४. अभिनिष्टान' इति सार्वत्रिको विभक्तिरहितोऽपपाठः।
५. चन्द्रस्तु 'अभिनिष्टानो वर्णे' (७४१७३) इति सूत्रयन् वर्णमात्रस्य संज्ञामाह।
६. 'उदकम्' इति क्वचिन्न । निघण्टो(११२) उदकनामसु पठितः। काशकृत्स्नीयधातुपाठस्य कन्नडटीकायामपि तथैव (काशकृत्स्नधातुव्याख्यानम् १। २५ २१९)।
७. तौदादिको वनिरनुदात्तेत्, न स्वरितेत् । तौदादिके वनधातो 'मनुदादात्तेत्वं' स्पष्टमुच्यते (८८) । तेसेह 'वनोति' इति पाठभ्रंशो द्रष्टव्यः।
८. धातुपागयणकारस्याप्येतदेव मतम । अन्ये तु यासुटयपि 'सायात सन्यात्' पात्वविकल्पमिक्छन्ति । द्र० धातुवृत्तिः पृष्ठ ६४ ।