________________
५
१०
१५
२
क्षीरतरङ्गिभ्यां
कणूकः, कण्ठः । अशूशुषि ( उ० १।१५२ ) इति क्वन् – कण्वं पापम् । काण्डम् । क्वणति । क्वणो वीणायां च ( ३।३।६५ ) इति बाप्निक्वणः निक्वाणः, क्वणः क्वाणः प्रक्वणः प्रक्वाणः, उपक्वणः उपक्वाणः । पीयुक्वणिभ्यां कालध्रस्वः प्रसारणञ्च (तु० उ० ३।७६ ) कुणालम् । क्वणेः सम्प्रसारणञ्च ( उ० ३ | १४३ कुणपः । व्रणति व्रणः । चुरादी व्रण गात्र विचूर्णने (१०।३२३) श्रदन्तः - व्रणयति । मूर्धन्यान्तो ध्वणिर् लोके नास्ति ॥ ४३१-४३६ ॥
)
३०३. प्रोण अपनयने । प्रणति । मा भवान् श्रोणिणत् । एतदेव ऋदित्त्वज्ञापकम् - नित्यमन्तरङ्गञ्च द्विर्वचनमुपधाह्रस्वत्वेन बाध्यत इति, अन्यथा द्विर्वचने कृत उपधाया प्रभावाद्धस्वो न प्राप्नोति, किम् ऋदित्वेन कृतं स्यात् श्रतो मा भवानटिटदित्यादौ ह्रस्वः सिद्धः । ४४० ३०४. शोण वर्णगत्योः । शोणति । शोणो लोहितः । शोणितं रुधिरम् । गतौ - शोणो नदः ॥ ४४१ ॥
३०५. श्रोण संघाते । श्रोणिः । श्रोणः पङ्गुः || ४४२॥
I
३०६. श्लोण च ।।४४३॥
३०७. पेणू' गतिप्रेरणश्लेषणेषु । पैणिति' प्रपिपैणत्' ।'४४४॥ ३०८. वन भण घण शब्दे । वनति । वनम् । संवननं वशीकरणम् । भणति । भाणः अलङ्कारे सुप्रसिद्धः । घणति । कौशिकस्तु दन्त्यान्त्यमाह । उस् ( द्र० उ० २।११८) धनुः । वनिप् - धन्वा । २० कृषिचभि ( उ० १।८२ ) इत्यूः - धनू : राशिः ।। ४४५ – ४४७ ॥
३०९. कनी दीप्तिकान्तिगतिषु । दीप्तिः प्रकाशः । कान्तिः शोभा । कनति । कनीनिका । कनकम् । अघ्न्यादौ ( द्र० उ० ४। १११ )
1
१. 'पेण', 'पेणति', 'प्रपिपेणत्' इति पाठा० ।
२. उणादिवृत्तिकारास्तु धन धान्य इत्यस्माद् 'धेनुः, धन्व, धनू:' शब्दान् २५ व्युत्पादयन्ति ।
३. अत्र लिबिशेन भ्रान्त्या 'उ० १ । १५६१ संख्या निर्दिष्टा । प्रस्मिन्नुणादिसूत्रेण तु भवि धातो: ( धन्व.) कनिनुप्रत्ययो विहितः । इह तु वनिप् प्रत्ययो निर्दिष्यते । स च प्रन्येन्योऽपि दृश्यते, ( भ्रष्टा० ३।१।७५) सूत्रेण भवति ।