SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ भ्वादिगणः (१) ७१ जनि (उ० ११७३) इति कन्तुः । कमेरठः (उ० १११०२) कमठः । कलस्त्रपश्च (उ०१।१०६)इति कमलम् । वतृवदि (उ० ३।६२) इति सः-कंसः । उणादौ कम्बलः, कोमल, कमला, कामला। अतिकमिभ्रमि (उ० ३।१३२) इत्यरः-कमरः । कमेरुश्चोपधायाः (तु० उ० ३।१३८) कुमारः। अतः किमिकंस (८।४।४६) इति सत्वम्पयस्कामः । न भाभूपूकमिगमि (८।४।३४) इति कृत्यचो न णत्वम्प्रकमनम्, प्रकामनम् ॥४३०॥ ३०१. उदात्ता अनुदात्तेतः। [अथ सेटः परस्मैपदिनः] ३०२. प्रण रण वण मण कण क्वण वण भ्रण ध्वंण शब्दार्थाः। १० एते शब्दनक्रियार्थाः। इतः क्रम्वन्ता (११३१६) त्रयस्त्रिशत् सेट परस्मैपदिनश्च । अणति । क्वुन शिल्पिसंज्ञगेः। (उ० २।३१) अणको नापितः । इञ् (द्र० उ० ४।१२४) आणिर् अक्षाग्रकीलकः, अणिरित्यमरसिंहः (२।८५७)। अण्डम् । प्रणश्च (उ०१८) इत्यु:अणुः । प्रणो ड च (श्वेत. उ. १८४) इति णित्त्वाद् आडू:- १५ पालुका। रणति । वशिरण्योश्च (३।३।५८ वा.) इत्यब वक्तव्यः, रणन्त्यस्मिन्निति रणः । रण-मण-क्वणां गतौ मित्त्वं स्मर्यते' रणयति, अन्यत्र राणयति । वणति । उद्वणः, उल्वणः, उदूखलोलूखलवत्' पृषोदरादित्वात् (६।३।१०६), लत्वं वा । वणत्यस्मिन् ज्या-वाणः । वण्यतेऽसावनया वा-इञ्- वाणिः, वाणी। मणितं सुरतकूजिते २० रूढम्, एवं कणितम् आर्ते, क्वणितं वीणादी, रणितं नपुरादौ, कूजितं विहगादो, बृहितं गजे, हृषितं हये, वाशितं पशुष, गजितं मेघादी, गुञ्जित भ्रमरादौ, गृञ्चितम् सिंहादौ, इत्यादि प्रतिषातुस्थं कियद् व्याचक्ष्महे वयम्, लोकात् सूरिभिरत्यूह्यम्, लक्ष्यमूलं हि लक्षणम् । मणिः । मणिको महाकुम्भः। कणति । कणः, कणिका, कङ्कणः, २५ १. नेदमस्माभि: क्वचिदुपलब्धम् । २. यथा उदूखल-उलूखलशब्दयोरुपसर्गदकारस्य विकल्पेन लत्वं तथैव उद्वण-उल्वणशब्दयोरपि द्रष्टव्यमिति भावः । ३. कृदिकारादक्तिम: (४।१।४१ गणसूत्रम् ) इति ङीष् । ४. बाण मोष्ठ्यादिः, न दन्त्योष्ठ्यादिः ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy