________________
म्वादिगगः (१)
२४७. रौड़ अनादरे। रोडति ।।३४७।। २४८. लौड़ उन्मादे। लौडति ।।३४८।।
२४६. अड उद्यमे । व्यडति । व्यड ' । तदपत्यं व्याडि: । व्याडः, व्यालः ॥३४६।।
२५०. लड विलासे । लडति। लडन्नपि दशन्नपि लडना ललना प्रमदा लाडयति । लडयोरेकत्वाल' लालयति वालम । लल ईप्सायाम् (१०।१३५) वा । ललितः । परिललललने ललितम्?। जिह्वोन्मथनयोः (११५५१) इति मित्-लडयति । चरादा लड उपसेवायाम् । (१०। ७) उपलाडयति ।।३५०॥
२५१. कडि मदे। कण्डति । कण्डः । प्राद्यो (१।१८६) ऽनुदा- १. तेत-कण्डते । कड इति दुर्ग:५- कडति । कडित्रं लेखनचर्म, अशि. त्रादिभ्य इत्रोत्रौ (उ० ४।१७३)। कृकदिकटिकडिभ्योऽम्बच (तु० उ०४।८२) कडम्बः शाकम् । कडङ्करो बुसम् । कडार:- गडेः कड च धनपानशाकटायनी । 'हौड़' स्थाने होड' पठन्ति चन्द्रमैत्रेयसायणादयः । पुरुष. कारे (पृष्ठ ७१) 'होड़ इति चन्द्रः' इति पाठदर्शनात् 'होड़' इति मुद्रित चान्द्र. १५ पाठोऽयुक्तः ।
१. 'प्रडो वृश्चिकलाङ्गुलम्, तेन तेक्षण्यं लक्ष्यते । विशिष्टोऽडस्तक्ष्ण्यमस्य व्यड:' इति धा० वृ० पृ० ८२ ।
२. डलयोरेकत्वस्मरणात् । चिन्त्यमिदं मतम् । नहि डलयोः पृयकस्थानप्रयत्नसाध्ययोर्वर्णयोरेकत्वं शक्यते प्रतिज्ञातम् । एवमेवडळयोरेकत्वं, रलयोरे- २० कत्वं, बवयोरेकत्वं च द्रष्टव्यम् । एभिनियमनिष्पादिताः प्रयोगा वस्तुतस्तत्तविशिष्टवर्णवद्भ्यो धातुभ्यो निष्पन्नाः। भासन् पुरा एतादृशाः पृथगेव धातवः । तथा च दृश्यते काशकृत्स्नधातुपाठे (पृष्ठ १७०) 'ईड ईल (?, ईळ) स्तुती इति पृथंग् द्वौ धातू । प्रोत्तरकालिकैस्तु वैगकरणैर्यदा भाषायां प्रयोगादर्शनाद् ग्रन्थम्य संक्षेपकरणाद्वा केचन धातवो धातुपाठे न निबद्धास्तदा २५ तत्समानार्थका वर्णभिन्ना मपि प्रयोगा एतादृशैनियमनिष्पादिताः ।
३. एतत्पृष्ठस्था पूर्वा टिप्पणिर्द्रष्टव्या। स्मृतमिदं सिद्धान्तकौमुद्याम् (भाग ३, पृष्ठ १२६)।
४. उद्धृतमिदं पुरुषकारे (पृष्ठ ६२), तत्र लड इति पाठः । :: ५. स्मृतमिदं धातुवृत्तौ (पृष्ठ ८२,३८१) पुरुषकारे (पृष्ठ ७२) च। ३०