________________
भ्वादिगणः (१)
२३२. रठ परिभाषणे । रठति ॥३२६॥ - २३३. हठ प्लुतिशकुबन्धनयोः । प्लवने कोलबन्धने चार्थे । हठ बलात्कारे इति तु चान्द्राः(चा० धा० ११११७) हठति । हठः ॥३३० .. २३४. उठ उपघाते । अोठति । उवोठ । ऊछुः । रुठ लुठ इत्यपि दौर्गाः - रोठति, लोठति ॥३३॥
२३५. पिठ हिंसासंक्लेशनयोः । पेठति । पिठरं स्थाली। पिठिरम् । पीठम्, पीङ: (धा० ४।३२). ठग् वा ॥३३२॥ ___२३६. शठ केतवे । शठति । शठः । चुरादौ शठ श्वठ प्रसस्कारगत्योः (१०।२६) शाठयति ।।३३३॥ २३७. शुठि गतिप्रतिघाते । शुण्ठति । शुठ इति दुर्ग:-शोठति १०
॥३३४॥ २३८ कुठि च । कुण्ठति कुण्ठः । कुण्ठेर्नलोपश्च (सर० कण्ठा० २।३।४३) कुठारः ॥३३॥
१. काशकृत्स्नधातुपाठ 'हठ बलात्कारे' इत्येव पाठः (पृष्ठ १७)। २: 'उपसंघाते' पाठा० ।
३. पुरुषकारे (पृष्ठ ६८) धातुवृत्तौ (पृष्ठ ८१) च स्मृतम् । अत्र धातुवृत्तो (पृष्ठ ८१) 'तथा च स्वामी - लुठतीति प्रयोगदर्शनात् तुदादौ पाठ इति' इत्युद्धृतः पाठः क्षीरतरङ्गिण्यां नोपलभ्यते। ४. 'वा' क्वचिन्न ।
५. अन्यत्र 'कैतवे च' इति चकारविशिष्टः पाठः । काशकृत्स्नधातुपाठेऽपि चकारः पठ्यते (पृष्ठ १७) । स्वामिन: चकाररहित: पाठ: पुरुषकारे (पृष्ठ २० ७०)धातुवृत्तौ (पृष्ठ ८१) च स्मृतः।।
६. मैत्रेयसायणादय: 'शुठ' इत्ययेव पठन्ति । तथैव काशकृत्स्नधातुपाठे ऽपि (पृष्ठ १७) । पुरुषकारे तु 'शुठ गतिप्रतीपाते, शूठ इति क्षीरस्वामी' इत्यन्यथा पाठ उपलभ्यते (पृष्ठ ६९)।
७. "प्रतिघाते इति धनपाल: । तथा च 'कुठि च' इत्युत्तरधातौ कुण्ठ इत्यादी । प्रतिहतिमात्र प्रतीयते. 'अनिशित इत्यर्थः' इति च स एवाह" इति पुरुषकार: (पृष्ठ ६९), इत्थमेव सायणः (धातुवृत्तिपाठस्त्वत्र त्रुटित: द्र० पृ० ८१)। काशकृत्स्नधातुपाठे (पृष्ठ १७) तु 'शुठि शोषणे' इति पठ्यते । शुण्ठ्यादौ तस्यवार्थस्य प्रतीयमानत्वात् । क्षीरस्वामी त्वग्रे (१।२४०) 'शुठि शोषणे' इत्यपि पठति ।
३०