SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण: (१) ५.३ १८७. खडि मन्थे । खण्डते । खण्डितः । खण्डः चुरादो खड़ खड़ि भेदे ( १० ३६ ) खण्डयति ॥ २७७॥ # १८८. खुडि गतिवैकल्ये । खुण्डते । खोडः पृषोदरादिः ( द्र० ६ । ३।१०९) । चुरादौ खुडि खण्डने ( १० १४२) खुण्डयति ॥२७८॥ • १८६. हे अनादरे । हेडते । हेडस्तिरस्कारः । प्रसुनि ( द्र० उ० ४।१८८) सान्तः । अचि ( द्र० ३।१।१३४) हेडोऽदन्तः । गुरोश्च हलः ( ३ | ३ | १०३ ) इति हेला' । प्रजिहेडत् । घटादौ हेड वेष्ठने (१।५२६) ति । हिडयति ॥ २७६॥ १९०. वाड़ श्राप्लाव्ये । आप्लाव्याप्लावनम् । वाडते । वाडोऽश्वः । वालः उणादौ वडवा' । वले ( १ । ३२९) रित्येके ॥ २८० ॥ १९१ द्राड़ धाड़ विशरणे । द्राड़ते, धाडते ॥२८१,२८२॥ १२. शाड़ श्लाघायाम् । शाडते, शालते । शाला । शालिः । गुणशाली : शालूकमुत्पलादिकन्दः । शलेर् (१।३२८) वा शलिमण्डि - भ्यामूकञ (तु० उ० ४।४२) ॥२८३॥ १६३ उदात्ता अनुदात्तेत ॥ [ अथ सेटः परस्मैपदिनः ] १६४. शौट्ट गर्वे । इतो गड्यन्ता: ( १/२५३) सप्ततिः सेटः ५ २० १. हेला इति तु डलयोरेकत्वम्मरणात् इति नव्यानां मतम् । वस्तुतस्तु 'डलयोरेकत्वस्मरणात्, डळयोरेकत्वस्मरणात्, रलयोरेकत्वस्मरणात्, इत्यादिवचनानां 'समानार्थको उभयथावर्णविशिष्टो स्वतन्त्रो धातु श्रवगन्तव्यो' इत्यर्थो - अनुसंधेयः । तेन हेड हेल इति द्वो स्वतन्त्रो धातु । एवमेव ईड ईळ इत्यपि द्रष्टव्यो । अस्मिन् धातुपाठे त्वन्यतरदेवोपदिश्यते लाघवार्थम् । श्रत एव प्राचीने काशकृत्स्नधातुपाठे (पृ० १२५ ) 'ईड ईल स्तुती' इत्युभौ धातु पठ्यते । २. डलयोरेकत्वस्मरणादिति शेषः । प्रत्र पूर्वधातोष्टिप्पणी द्रष्टव्या । माहु: । अत्रापि पूर्वतमधातोष्टिपणी द्रष्टव्या । 1 १० 1 ३. 'वडं वलं वा वाति, वडवा' इत्यमर टीकायां (पृष्ठ १८५) क्षीरस्वामी । २५ ४. डलयोरेकत्वस्मरणात् । प्रत एव गुणेन शालते गुणशाली इति निर्वचन ५. 'शौण्ड गर्वे – शौण्डति, शौण्डीर:' इति काशकृत्स्नधातुपाठे द्र०पृ० १५ । -
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy