________________
क्षोरतरङ्गिण्यां १८१ स्फुडि विकसने'। स्फुण्डते ॥२७१॥
१८२. चडि कोपे। चण्डते। चण्डः, चण्डा, चण्डी। पतिचण्डिभ्यामाला (उ० १।११६) चण्डालः । चुरादौ (१०।४४) चण्डयति ॥२७२॥
१८३. शडि रुजायां संघाते च । तालव्यादिः। शण्डते । शण्डो. ऽब्जादिमूलाभोगः । सनोतेर् (धा० सू० ८।२) बाहुलकात् . षत्वे डः (द्र० उ० १।११३) - षण्ड उत्सृष्टो गौः ॥२७३॥
१८४ तडि ताडने । तण्डते, वितण्डा । तण्डना प्रोक्तं ताण्डवम् । तण्डुलः वृङ्लुटितनिताडिभ्य उलच तण्ड च (तु० उ० ५६) इति १० कुशकाशावलम्बनम् ॥२७४॥
१८५ पडि गतौ । पण्डते । पण्डितः । पाण्डुः पाण्डुरोगो हरिणवर्णश्च । नगपांशुपांडुभ्यो रः(५।२।१०७ काशिका) पाण्डुरः। पाण्डु. स्त्वौणादिकः (द्र० उ० ११३८) । पण्डः क्लीबः ॥२७॥
१८६. कडि मदे । कण्डते। कण्डूः। काण्डः । कण्डरा स्नायु१५ संघातः। कण्डोलः पिटकः ॥२७६॥
काशकृत्स्नचन्द्रधातुपाठयोरेतद्धातुस्थाने 'भुडि भरणे' इति धातुः पठ्यते । यथात्र भुडि हुडि पृथग्धातू तथैव गृह्णाति गृभ्णाति इत्यत्र स्वतन्त्री 'ग्रह-प्रभ' धातू द्रष्टव्यो । निरुक्तकारस्तु 'गृभ' इति मेने । तथा युक्तम् “गर्भो गृभेः" (नि० १० । २४)।
१. 'स्फुडि विकसन इति केचित् पठन्ति' इति धातुवृत्ति: (पृष्ठ ७४)।
२: या स्वयं चण्डते सा चण्डा, चण्डस्य स्त्री (या न स्वयं चण्डते) तु चण्डीति विवेकः ।
३. 'ताण्डुः, तत्प्रोक्तं ताण्डवम्' पाठा० ।
४. तडि ताडने इत्यस्मादेवीलचि तण्डुले सिद्ध वृङादिभ्य उलच तण्डादेश२५ विधानं तु संज्ञाशब्देषु स्वरूपसंवेदनस्वरवर्णानुपूर्वीमात्रफलमन्वाख्यानमिति नव्या
वैयाकरणा: (द्र० श्वेतवनवासी उ० वृ० पृ०१) । तडि (तण्ड) धातोनं केवलं ताडनमेवार्थ अपि तु वृङ् लुट तनु तड (चु०) इत्येतेषां धातुनां येऽस्तेिऽप्यत्र द्रष्टव्या, तेन वृङ् लुट् तनु तड (चु.) इत्येतेषां धातूनामर्थेषु वर्तमानात् तडि
(तण्ड) धातोरुचल् इत्यर्थोऽस्य सूत्रस्यावगन्तव्य इत्यस्मन्मतम् । एवमेवान्य३० वापि।
२०