________________
भ्वादिगणः (१) परस्मैपदी- वण्टति, वण्टयते । वण्टो नागः । नन्दी तु वटि विभाजने वडि वेष्टने, इति भङ्ग्या पठति' ॥२६४॥
१७५. मडि च । चकाराद् विभाजने । पृथक्सूत्रादर्थान्तरेऽपि । मण्डते । मण्डो रसाग्रम् । मण्डकः । मण्डलम् । मण्डूरं लोहमलम् । मण्डपः । णेरित्नुच् (द्र० उ० ३।२६) मण्डयित्नुः । शलिमण्डिभ्या- ५ मूका (तु० उ० ४।४२) मण्डूकः । मडि भूषायाम् (धा० १२२१६) परस्मैपदी-मण्डति ॥२६५॥
१७६. भडि परिभाषणे । भण्डते । भण्डः, भाण्डम् । चुरादौ भडि कल्याणे (१०।४६) भण्डयति, भण्डना ॥२६६॥
१७७. पिडि संघाते । पिण्डते, पिण्ड्यते । पिण्डो गोलः । पिण्डी। १० चुरादौ (१०।११८)पिण्डयति ॥२६७।।
१७८. मुडि मज्जने । मज्जनं शुद्धिय॑ग्भावश्च । मुण्डते । मुण्डः । मुडि खण्डने (१।२२३) परस्मैपदी-मुण्डति । मुण्डमिश्र (३।११२१) इति णिच्-मुण्डयति ॥२६॥
१७६. तुडि तोडने : तोडनं हिंसा । तुण्डते, तुण्ड्यते। तुण्डम् । ५५ उणादौ (द्र० ४।११७) तुण्डिः ॥२६॥
१८०. हुडि वरणे । वरणं स्वीकारः । हुण्डते । हुण्डो मेषः॥२७०
१. 'नन्दी तु वडि विभाजने, मडि वेष्टने इति भङ्क्त्वा पठति' इति धातुवृत्तौ (पृष्ठ ७४) पुरषकारे (पृष्ठ ७१) च पाठः । काशकृत्प्नधातुपाठीयकन्नडटीकायां (पृष्ठ ७३) तु 'वडि मडि वेष्टने' इति पाठः । वाहीक (पञ्जाब) २० देशीयभाषायां विभाजनार्थिका 'वण्डना' क्रिया प्रयुज्यते । तेन 'विभाजने' इत्यप्यर्थः प्रामाणिक एव । . २. पुरुषकारे (पृष्ठ ७१) उद्धृतमिदम्, धातुवृतो (पृष्ठ ७४) च स्मतम् ।
३. 'मण्डलम' पाठा० । . ४. 'मार्जने' इति चन्द्रमैत्रेयसायणा: । 'मज्जने' इति काशकृत्स्नधातु. २५ पाठीयकन्नडटीकायां (पृष्ठ १००) पाठः । 'मज्जनं स्नानं' इत्यपि तत्रैव ।
५. स्मृतमिदं पुरुषकारे (पृष्ठ ७०)। ६. स्मृतं पुरुषकारे (पृष्ठ ७३)। ७. 'हरणे' इति मैत्रेय: (धा० प्र० पृष्ठ २७) । अत्रायं विशेष:- ..