SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ १५ ५० क्षीरतरङ्गिण्यां उणादौ (३१८२) लोष्टो मत्पिण्डः ।। २५२ ।। १६४. घट्ट चलने । घट्टते । घट्टिवन्दिविदिभ्यः ( ३ |२| १०७ वा० ) युच् घट्टना । अरघट्टः । उद्घट्टनम् । चरादौ (१०/६१) घट्टयति । २५३ १६५. श्रठि गतौ । अण्ठते ॥ २५४ ॥ 1 ? २५ १६६. वठि एकचर्यायाम् । एकस्य चर्या सहायत्वेनागमनम् । वण्ठते । वण्ठो' दत्तद्रव्यों योद्धा ॥ २५५॥ १६७. मठि कठि शोके । शोकोऽत्राध्यानम् । [ मण्ठते], उत्कण्ठते । उत्कण्ठा । चुरादी (१०।२३६) उत्कण्ठयति ।। २५६,२५७।। १६८. मुठि पलायने । मुण्ठते ॥ २५८ ॥ १६६ हेठ विबाधायाम् । हेठते, जिहेठे । णौ चङ्युपधायाः ह्रस्वः ( ७।४।१) अजीहिठत् । णौ - हेठयति । हेठना शाठ्यम् । २५६।। १७०. एठ च । एठते ॥ २६०॥ १७१. हिडि गत्यनादरयोः । हिण्डते । युच् ( ३।२।१४६ ) हिण्डनः ।। २६१।। १७२. हुडि संघाते । हुण्डते । हुण्डिका मुद्रा ॥ २६२॥ I १७३.. कुडि दाहे । कुण्डते । कुण्डम् । कुण्डी भाण्डम् । कुण्डो जारजातः । उणादौ (१।१०६) कुण्डलम् । चुरादौ कुडि रक्षणे ( द्र० १०।४०) कुण्डयति ।। २६३॥ १७४. वडि विभाजने । विभाजनं भागीकरणं चरमाभावश्च । २० वण्डते । वण्डनम्, वण्ड: । चुरादौ (१०।४३) वण्डयति । वटि इत्येके T १. 'ननु चायमिङ् एक एव वण्ठरण्डाकल्प:' इति महाभाष्यव्याख्याने ( ३। ३।२०) वण्ठो मृतभार्य इति नागोजिभट्टः । २. प्राध्यानमुत्कण्ठापूर्वकं स्मरणम् । ३. 'पालने' इति मैत्रेयसायणौ । 'पलायने' इति काशकृत्स्नचन्द्रौ । ४. 'विबाधनं शाठ्यम्' इति धातुवृत्तिकार : ( पृष्ठ ७३ ) । 'स्वस्थैर्ये' 'हेठते स्थिरो भवति' इति काशकृत्स्नीयधातुपाठकन्नडटीकायाम् (पृष्ठ हैन ) । ५. 'विपूर्वोऽयमिनि स्वामिकाश्यपी, मैत्रेयादयस्तु केवलमेवोदाजह्न:' इति धातुवृत्ति: ( पृष्ठ७४ ) क्षीरतरङ्गिण्यां तु न विपूर्वः पाठो दृश्यते ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy