________________
भ्वादिगणः (१)
४६
१५८. वज व्रज गतौ । वजति । वाजो वेगपक्षौ । व्रजति, वव्राज। वव्रज (७।२।३) इति वृद्धिः-अबाजीत् । व्रजयजो वे क्यप्-(३। ३।१८) व्रज्या, परिव्रज्या । गोचरादौ (द्र० ३।३।११९) व्रजः साधुः। ण्यति (द्र० ३।१।१२४) व्राज्यम्। अजिव्रज्योश्च (७।६।६०) इति कुत्वाभावः । क्विन् वचि (उ०. २१५७) इति क्विब्दीघौं–परिव्राट्, ५ वश्च (८।२।३६) इति षः। परिव्राजकः । चुरादौ वज मार्गसंस्कारगत्योः (१०।६९) वाजयति ॥२४७,२४८।।
१५६. उदात्ता उदात्तेतः ।
[अथ सेट प्रात्मनेपदिनः] १६०. प्रत्ट प्रति क्रमहिंसनयोः । इतः शान्ताः (१।१९२)पञ्चत्रिंशत् सेट प्रात्मनेपदिनश्च । अतिक्रम उल्लङ्घनम् । क्विपि तकारश्रवणार्थ तोपधोऽयं पठितः, ष्टुत्वं न कृतं सन्देहप्रादुर्भावात्' । अट्टते, अटिट्टिषते । अट्टः, अट्टनम् । क्विपि-प्रत। दोपधत्वपक्षे न न्द्राः द्विरुच्यन्ते-अट्टिटिषते। अन्ये तु प्रड इत्याहुः-अड्डते अड्डिडिषते १५
॥२४६।। १६१. वेष्ट वेष्टने । वेष्टनं ग्रन्थनं लोटनं परिहाणिश्च । वेष्टते, अवेष्टत । प्रवेष्टो बाहुः । वेष्टितः । विभाषा वेष्टिचेष्टयोः (७।४। ६६) इति णौ चङि अभ्यासस्यात्वम्-अववेष्टत्, अविवेष्टत् ॥२५०।
१६२. चेष्ट चेष्टायाम् -चेष्टा ईहा। चेष्टते, अजचेष्टत्, अचि- २० चेष्टत् ॥२५१॥
१६३. गोष्ट लोष्ट संघाते। गोष्टते, लोष्टते, अलुलोष्टत् ।
१. काशकृत्स्नधातुपाठीयकन्नडटीकायाम् 'अदि प्रति क्रमहिंसनयोः' इति पाठः । अन्दते, अन्तते इति च तयोरुदाहरणे (द्र० पृष्ठ ७१) । वर्णक्रमविरोधादत्र पाठभ्रंशः प्रतीयते ।
२. मतमिदं पुरुषकारे (पृष्ठ ६३) स्मृतम् । ३. नन्द्रा: संयोगादयः (६।१।३) सूत्रेणेति शेषः । ४. 'डान्तपाठ: प्रकरणविरोधादुपेक्ष्यः' इति धातुवृत्तिः (पृष्ठ ७३) । ५. 'परिणाहश्च' पाठा० ।
२५