________________
४८
क्षारतरङ्गियां
१५२. लाज लाजि भर्जने' च । लाजति, लाञ्जति, लाज्यते, लाज्यते । लाजाः, अजिव्रज्योश्च (७।३।६०) इति चात् कुत्वाभावः । चत्वारो भर्त्सन इति चन्द्रः (च० धातु १७७) ॥२३५,२३६॥
१५३. जज जजि युद्धे । जजति. जञ्जति' ॥२३७,२३८॥ १५४. तुज तुजि हिंसायाम् । तोजति, तुजति ॥२३६,२४०।।
१५५. तुजि पालने च । तुज्यत इति तुङ्गः, घञ् । तुञ्जिता भूः। चुरादौ भासार्थः (१०।२२३) तथा तुजि पिजि लुजि हिंसाबलादाननिकेतनेषु (१०.३५) तुञ्जयति, तुञ्जो निकेतनम् ॥
१५६ गज गजि, गज, गजि', मज, मुजि , शब्दार्थाः। गजति, १० गजित्वा । गजति, गञ्जित्वा । गजा मदिरागृहम् । गजः कोशः ।
गर्जति, गजितम्, गर्जः। गृञ्जति । गृञ्जनं मूलविशेषः। मजति, मुञ्जति । मुञ्जस्तृणम् । मुज मजीत्यप्याहु.५–मोजति, मृजति ॥२४१-२४६।।
१५७. गज मदने च । मदनं मदोत्पत्तिः । गजति । अचि -गजो हस्ती। चुरादौ गज मर्च माज [शब्दार्थाः] (१०।६६) इति गाजयति ।
१. 'लज लजि भर्सने, लाज लाजि भर्जने च इति तु क्षीरस्वामी' इति पुरुषकारे (पृ० ६१)।
२. अस्मादेव धातोः घनि 'जङ्ग' शब्दो निष्पन्नी भवति । कुत्वं च 'चजोः' (७५३.५२) इत्यनेन । धातुप्रदीपे शब्दोऽयं निर्दिष्टः (पृ० २५) । स च युद्धार्थकः । माधुनिकः भाषातत्त्वविद: शब्दमिमं फारसीभाषीयं मन्यन्ते, तदसत । विशेषस्त्वत्र 'संस्कृत व्याकरणशास्त्र का इतिहास' नाम्नि ग्रन्थे (पृष्ठ ५० च० सं०) द्रष्टव्यः।
३ 'गज गजि इत्यत्र क्षीरस्वामी मृज मजि इत्यप्याह-मार्जति मज२५ तीति' इति पुरुषकारे (पृष्ठ ५८) पाठः । 'मृजमजीति स्वामिचन्द्रौ' इति
धातुवृत्ती (पृष्ठ ७३)। ... ४. 'मुज मुजीति क्षीरस्वामी चन्द्रश्च' इति पुरुषकारः (पृष्ठ ५७) । धातुवृत्ती (पृष्ठ ७३) स्वामिचन्द्रयोर्मते 'मृज मृजि' - इति पाठः प्रदर्शितः ।
मुद्रिते चान्द्रधातुपाठे तु 'मुज मुजि' इति पाठ उपलभ्यते (चा० धा० सू० ३०. ११८०)। ५. 'मृज मुजीत्यप्याहुः' इति पुरुषकारे (पृष्ठ ५७) पाठः ।