________________
स्वादिगण: ( १ )
१४८. टुनोस्फूर्जा वज्रनिष्पेषे । वज्रनिष्पेषोऽशनिनिर्घोषः । स्फू जंति । स्फूर्जः। दीर्घोच्चारणं दीर्घस्यानित्यत्वार्थम् ' । प्रोदितश्च ( ८ २।४५) इति निष्ठानत्वम् - स्फूरणः, चोः कुः (८/२/३०) श्रादितश्च ( ७/२०१६) इति नेट् । विभाषा भावादिकर्मणोः (७/२/१७) स्फूजितमनेन स्फूर्णम् प्रस्फूर्जितः प्रस्फूर्णः । ट्वितोऽथुच् (३०२२८१ ) - स्फूर्जथुः ।।२३०॥
१४. क्ष क्ष । क्षयति । क्षेता, लक्ष्यानुरोधादिण् नास्ति वक्ष्यति' च
पाठमध्येऽनुदात्तानामुदात्तः कथितः क्वचित् । अनुदात्तोऽप्युदात्तानाम् पूर्वेषामनुरोधतः ।। *
४७
क्षियः, निष्ठायामण्यदर्थे ( ६ ४ / ५६, ६० ) दीर्घः, क्षियो दीर्घात् ( |२| ४६ ) इति निष्ठानत्वं क्षीणः । वाक्रोशदैन्ययोः (६/४/६१ ) क्षितः क्षीणः । तुदादौ । क्षि निवासगत्योः (६।१०८) क्षियति, ऋयादौ क्षिष् हिंसायाम् (६/३७) क्षिणाति, स्वादौ ॠ क्षि चिरि जिरि दाश हिंसायाम् (५।३३) क्षिणोति ॥ २३१||
१५०. क्षीज श्रव्यक्ते शब्दे । क्षीजति, चिक्षीज || २३२ ॥
१ : १. लज लजि भर्त्सने । लजति लञ्जति । भासार्थश्चुरादौ (१०।१६७ ) लञ्जयति ॥ २३३,२३४॥
1
५
१०
१५
तदा तङानो' इति प्रयुज्यते ।
१. उपाधायां च (८।२।७४ ) इत्यनेन दीर्घो भविष्यत्येव, अतः स्फूर्जेति २० दीर्घोच्चारणं दीर्घस्यानित्यतां ज्ञापयति । काशकृत्स्नधातुपाठेऽपि दीर्घोकारवान् पठ्यते । (१।७२) ।
२. क्षिक्षये, क्षि ऐश्वर्ये इत्येक इति क्षीरस्वामी इति पुरुषकारे ( पृष्ठ २३) । क़ाशकृत्स्नधातुपाठे 'क्षी क्षय' इति दीर्घेकारान्त: पठ्यते ( १:७३ ) | ३. 'वक्ष्यति' इत्यस्य कः कर्त्तेति न ज्ञायते अनन्तरमुद्धृतः श्लोकः ग्रन्थेऽस्मिन्नुपरिष्टान्नोपलभ्यते ।
४. एतेन ज्ञाप्यते यत् प्राक्पाणिनीयेषु धातुपाठेषु उदात्तानुदात्तधातूनां सांकर्यमासीत्, पाणिनिना यथासम्भवं स दोषो दूरीकृत इति । काशकृत्स्नधातुपाठेऽपि इहैव पाठ उपलभ्यते (१।७३ ) ।
५. यथोक्तं पुरुषकारे — 'लञ्जयेदिति क्षीरस्वामिनः पक्षे' ( पृ०६१) ।
२५
३०