________________
क्षीरतराङ्गण्यां
वस्यानित्यत्वे लिङ्गम्, वी ह्यनुदात्तः। प्राजिता रथस्य प्रवेता' । वलादाविति किम् ? समज्यते । वा यौ (२।४।५७) वा-प्राजनो दण्डः; प्रवयणो दावात्यये । वातशुनीतिलशष्वजधेटतुदजहातिभ्यः खश (३।२।२८ वा०) वातमजा मृगाः। अजतीत्यजः छागः । अजा व्यजनम् । समुदोरजः पशुषु-(३।३।६६) इत्यप-समजः पशुसङ्घः, उदजः पशुप्रेरणम्, अन्यत्र घञ्-समाजः, उदाजः । अजिव्रज्योश्च (७। ३।६०) इति कुत्वाभावः। संजायां समजनिषद (३।३।६६) इति क्यप्–समज्या सभा; संज्ञात्वाद् वीभावो नास्ति । गोचरसंचर (३॥ ३।११६) इति व्यजः साधुः। प्रजेरज (द० उ० २।४८) इतीनचअजिनम् । प्रज्यतिभ्याम् (उ० ४।१३०) इण् आजियुद्धम् । पादे च (उ० ४।१३१) पदाजिः । प्रजिरशिशिर (उ०.२११४५) इत्यजिरम् । बहलं संज्ञाछन्दसोः अन्नवधकगात्रविचक्षणाजिराद्यर्थम् (२।४।१४ वा०) इति वीभावो नास्ति । प्रजिरीभ्यो निच्च (उ० ३।३८) इति णु: - वेणुः। रास्नासास्ना (उ० ३।१५) इति वीणा ॥२२५।।
१४४. कज मदे। कजति ।।२२६॥
१४५. खज मन्थे । मन्थो विलोडनम् । खजति । खजेराकन (तु०. उ० ४।१३)-खजाको मन्थः, खजाका दर्वी, खजो विद्रव्यपाचकानां मन्थनदण्डः ॥२२७॥
१४६. खजि गतिवैकल्ये । खजति । खञ्जः खोड:, खञ्ज नोदकं २० सर्षपश्च । खञ्जनः, खञ्चरीटः पक्षी ॥२२८॥
१४७. एज़ कम्पने । एजति। एजेः खश् (३।२।२८) अङ्गमेजयः । एज़ दीप्तौ (१११११) तङानी -एजते ॥२२६ ।। - १. एवं हि कश्चिद् वैयाकरण आह-कोऽस्य रथस्य प्रवेतेति । सूत माह
-प्रहमायुष्मन्नस्य रथस्य प्राजितेति' इत्यादि महाभाष्यम् (२।४।५६) प्रत्रानु२५ सन्धेयम् ।
२. 'प्राजनम्' पाठा० । ३. हस्तलेखेषु 'पदे च' इत्येवं पठ्यते ।
४. 'तङानौ' इति हस्तलेखेषु पठ्यते । प्रायेण ग्रन्थकृता 'तङानी' 'तङानी' इति पदद्वयं व्यवहृतम् । अत्रायं विवेक:- यदा तप्रत्ययः प्रानप्रत्ययश्चास्य
धातोर्भवति इत्यर्थो विवक्षितः, तदा इनि प्रत्यये 'तङानी' इति धातुविशेषणत्वेन ३० प्रयुज्यते । यदा तु तप्रत्यय पानप्रत्ययश्च प्रदर्यते इत्यर्थो विविक्षितो भवति