________________
भ्वादिगणः (१)
एताविह न पाठ्यौ तुदादित्वादेवेष्टसिद्धेः ॥२१३॥
१३६. वृज ध्रजि', ध्रज ध्वजि गतौ । वर्जति । वरीवृज्यते रोगदुपधस्य (७।४।६०) इति रीक् । इदुपधोऽयमित्येके वेजति । ध्रजति । ध्रजति, ध्वञ्जति । ध्वजेत्येके ध्वजति, ध्वजः, तो हलादे: (७।२७) इति सिचि वा वृद्धिः-अध्वजीत्, अध्वाजीत् ॥२१४-२१७॥
१३७. कूज अव्यक्ते शब्दे । कूजति । कूजितम् ॥२१८'।
१३८. अर्ज सर्ज अर्जने। अर्जति । प्रानर्ज । अर्जिजिषति । अजिदृशिकम्यमि (उ० ११२८) इत्युः-ऋजुः। अर्जेणिलुक् च (उ० ३। ५८) इत्युनन्-अर्जुनः । अर्जेज च (दश० ६।११) इतीषन्ऋजीषम् पिष्टपचनम्। सर्जति । सर्जिका । कृषिचमितनिधनिजिख- १० जिभ्य ऊः (उ० १।८२) सर्जू ः ॥२१६, २२०॥
१३६. गर्ज शब्दे । गर्जति । गजितं स्तनितम् ॥२२१॥ . १४०. तर्ज भर्सने । तर्जति । चुरादौ (१०।१५१) तर्जयते ॥
॥२२२॥ १४१. कर्ज खर्ज व्यथने ! कर्जति । खर्जति । कृषिचमि (उ० ११ १२ ८२) इत्यू:- खजूः ॥२२३, २२४॥
- १४२ खर्ज मार्जने च । खर्जपिञ्जादिभ्य ऊरोलचौ (उ० ४।६०) खर्जूरः ॥
१४३. अज गतिक्षेपणयो; । अजति, प्रजेयंघापोः (२।४।५६) . प्रार्धधातुके संविवाय, संवीय । उदात्तत्त्वं त्वार्धधातुके वलादौ वीभा- २०
१. इदमत्रावधेयम-भ्वादी पाठाद् उञ्छति उच्छति इत्यनयो: शप्तिपोरनुदात्तत्वात् उञ्छतः उच्छत: इत्यनयोश्च लसार्वधातुकानुदात्तत्वाद् धातुस्वरो भवति, तुदादौ पाठात् शस्वर: स्यात् । तस्मात् स्वरभेदार्थमुभयत्र पाठः कर्तव्य एव।
२. अत्राह सायण:-'तरङ्गिणीकाश्यपसंमतास्तु (? सु) माद्यो व्रज व्रजी २५ इति दन्त्योष्ठ्यादी पठ्य ते, सर्वत्र तवर्गादी एव ।' (धा० वृ० पृष्ठ ६९) । भट्टोजिदीक्षितोऽपि सायणपाठमेवानूदितवान् (द्र० प्रो० मनो० पृष्ठ ५६०) क्षीरतरङ्गिण्यां तु नैतादृशः पाठ उपलभ्यते ।