________________
कादाचित्कतयां सिद्धा दुःखस्वास्य सहेतुता ॥१८॥
नित्यं सत्वमसत्वं वा हेतो यानपेक्षणात्। a. कादाचित्कतया दुःखस्य सहेतुता सिद्धा (१८१)। नित्यं सस्थमसत्व'म्बा हेतोर्भवति यथाऽऽकाशस्य शशविषाणस्य बाह्यानपेक्षणात्। य एव च दुःखहेतुः स एव समुदयः।
तैदण्यादीनां यथा नास्ति कारणं कण्टकादिषु ॥१८२॥ . तथाऽकारणमेतत् स्यादिति केषित् प्रचक्षते । न'नु यथा कण्टकादिषु तैलण्यावीनां कारणं नास्ति (१८२)तपाऽकारवमेतत् दुःखं स्यात् । तत् कुतः समुदय इति केचित् स्वभाववादिनः प्रचक्षते (1) ____b. ते एवं वक्तव्या (1) .. सत्येव यस्मिन् यजन्म विकारे वाऽपि विक्रिया ॥१८॥
तत् तस्य कारणं प्राहुस्तत् तेषामपि विद्यते। - सत्येव यस्मिन् वस्तुनि यस्य जन्म। यस्य विकारे सत्येव वा यस्य विक्रिया (१८३) तत्तस्य जन्मिनो विकारिणश्च कारण माहुम्बिद्वांसः। तज्जन्म सत्येव बीजोदकपृथिव्यादिषु तदुत्कर्षापकर्षादिविकारे च विकतत्वं तेषां कण्टकादीनामप्यस्तीति तेपि सहेतुका एव । एवं स्कन्धा अपि।
. ननु स्पर्शे सति भवति चक्षुविज्ञानं । असति च न भवति' (1) न च तत् कारणमतोऽतिव्याप्तिरित्याह (1)
. स्पर्शस्य रूपहेतुत्वाद् दर्शनेऽस्ति निमित्तता ॥१८४॥ स्पर्शस्य रूपाद्यविनिभी गिनः सहकारिभावेन रूपहेतुत्वात्। दर्शने चक्षुविज्ञानेऽस्ति निमित्तता पारम्पर्येणेति नातिव्याप्तिः। (१८४)
एतच्च व्यतिरे. कमभ्युपगम्योक्तं न तु रूपमुपदर्य स्पर्शाभावे नेत्रबुद्धेरभावः शक्य दर्शनः। रूपस्पर्शयोरविनिर्भागवत्तित्वात्। तस्य च दुःखस्य (1)
१ कः पमनालबलकेशरकर्णिकानां संस्थानवर्णरचनामृतुताविहेतुः (1) पत्राणि चित्रयति कोत्र पतत्रिणाम्या स्वाभाविक जगविवं नियतं तथैव ।। दुःखमहेतुकं चाकिः ।, "स्पर्शवत्येवं संहते चम्विज्ञानं मन्यते। । स्पर्शीभूतचतुष्कात्मा उपादाय रूपस्य हेतुः। अतिव्याप्ति।