________________
ex
प्र० वा० वृत्तौ (१ परिच्छेदः)
नित्यानां प्रतिषेधेन नेश्वरादेश्च सम्भवः । असामर्थ्यादतो हेतुर्भववाञ्छा ;
नित्यानां क्रमाक्रमाभ्यामर्थक्रियायामसामर्थ्यात् । प्रतिषेधेन' च नेश्वरावेरादिग्रहणात् प्रधानपुरुषादेः कारणात्सम्भव उत्पाद: । अतो नित्यादनुत्पत्तेर्दु :खस्य हेतु वाञ्छा जन्मतृष्णा, जन्मस्थानावस्था सत्त्वाद्यभिलाषात्मिका । (१८५) परिग्रहः ॥ १८५ ॥ यस्माद् देशविशेषस्य तत्प्राप्त्याशाकृतो नृणाम् ।
यस्माद् देशविशेषस्य परिग्रहः तत्प्राप्तितृष्णाकृतो नृणां । नृशब्द: प्राण्युपलक्षणः । ततो गर्भस्था' नादानमपि तत्तृष्णाकृतमेव । (१८६)
c. ननूक्तं भगवता " तत्र कतमस्समुदय आर्यसत्यं पौनर्भाविकी नन्दी सहगता तत्र तत्राभिनन्दिनी यदुत कामतृष्णा भवतृष्णा विभवतृष्णा चे "*ति तत्कथमेका भवतृष्णोच्यते समुदयसत्यमिति । अत्राह (1)
सा भवेच्छाऽप्यनाप्तीच्छोः प्रवृत्तिः सुखदुःखयोः ॥ १८६॥ यतोSपि प्राणिनः कामविभवेच्छे च ते मते ।
यतः कारणात् प्राणिनः सुखदुःखयोः क्रमेणाप्यनाप्तीच्छाः प्रवृत्तिर्गर्भस्थानपरिग्रहायातः सा भवेच्छापि (१८६) कामविभवेच्छे च ते मते । सुखप्राप्तीच्छा कामतृ ' ष्णा । दुःखवियोगेच्छा विभवतृष्णा । भवतृष्णायां सुखदुःखप्राप्तिपरिहारेच्छापूव्विकायां गर्भस्थानोपादानेच्छात्मिकायां द्वयोरपि संग्रहादविरोधः । (१८७)
गर्भावि ।
प्रीतिर्नन्दी ।
सर्वत्र चात्मस्नेहस्य हेतुत्वात् संप्रवर्तते ॥ १८७॥ सुखे सुखसंज्ञस्य ;
समुदयस्य च समुदयात्मकत्वात् सर्व्वत्र विषयेऽसुखे सुखरहिते सुखसंज्ञस्य दुःखविपर्ययस्तस्यानेनाशुचौ शुचिविपर्यासोपि कथितः । न ह्यशुचौ तथा मन्यमान कस्यचित् सुखसंज्ञाऽऽत्मस्नेहेनेति आत्मस्नेहस्य हेतुत्वादिति । अहङ्कारममकारो
' "कारणम्विकृतिङ्गच्छज्जायतेन्यस्य कारणमित्यादिना ।
अवस्था मनुष्यदेवादि ।
* सहायाः सत्त्वाः उपकरणञ्चन्दनादि । # द्वयो रागयोः समवधानाभावादाह । वर्तमानार्थलम्बनाकृष्टा * दीघनिकाय २२२