________________
.. ... समुदयसत्यम् ..... त्थापितस्य । अनेनात्मनि आत्मस्नेहविपर्यास उक्तः। संप्रवर्तत इत्यनेनानित्यविपर्यासः सूचितः। न हि नित्यविपर्यासम्विना फलार्थी प्रवर्तते।
तस्मात् तृष्णा भवाश्रयः। तदेवं चतुविपर्यासवासितमानस एवात्मस्नेहात् सुखदुःखप्राप्तिपरिजिहीर्षया प्रवर्तते। तथा गर्भस्थानेपि सुखदुःखप्राप्तिपरिहारेच्छैव तृष्णा। तस्मात्तृष्णा भवस्याश्रयो हेतुः। अनेन हेतुत आख्यातं। _ विरक्तजन्मादृष्टरित्याचार्याः संप्रचक्षते ॥१८८॥
अदेहरागादृष्टेश्च देहाद् रागसमुद्भवः । ननु "विरक्तस्य जन्मादृष्टेरि (न्यायसू० ३।१२५)त्याचार्या गौ त मा द योपि संप्रचक्षते (। १८८) ऽदेहस्य रागादृष्टश्च बेहाद्रागसमुद्भवः स्थितस्ततो न देही वीतरार्गः।
अत्राह (1) . निमित्तोपगमादिष्टमुपादानं तु वार्यते ॥१८९॥
निमित्तस्य सहकारिकारणस्योपगमात् देहोस्य रागस्य सहकारिकारणमिष्टं ततो नानिष्टमापद्यते । उपादानन्तु देहो रागस्य वार्यते। राग एव तू पादानकारणं। न च रागो जन्महेतुः। विरक्तस्य करुणया जन्मसम्भवात्। रक्तस्यापि तृष्णयेव जन्मग्रहः। अनेन प्रत्ययत इति व्याख्या तं। (१८९)
इमां तु युक्तिमन्विच्छन् बाधते स्वमतं स्वयम् ।
जन्मना सहभावश्चेत् जातानां रागदर्शनात् ॥१९॥ _d. विरक्तजन्मादृष्टेरितीमा युक्तिमन्विच्छन् चार्वा कः स्वमतं स्वयं बाधते। रागहेतुको देहः तद्धेतुकश्च राग इति। अन्योन्यहेतुत्वात् जन्मप्रबन्धसिद्धेः । वीतरागाभ्युपगमाच्च स्वमतबाधास्य जन्मना सहभावो रागादीनां न पूर्व रागोस्ति जातानां रागदर्शनात्। अतो न रागो देहहेतुरिति चेत् । (१९०)
सभागजातेः प्राक् सिद्धिः;
'अहंकारममकारो यस्य। 'वसुवन्धुनैवमुक्ते चार्वाक आह। देहस्य न रागमात्रात् प्रभवाकारमाह।