________________
प्र० वा० यूवी (१ परिच्छेदः)
II. तण्या अन्मसमुदयः . नन्वेवं देहोपि न स्यात् रागहेतुः सहभावात् । न चाहेतुकता। ततः सभागात् सजातीयाद्रागाजातरुत्पादात्। प्रायागस्य सिद्धिरित्यायातं।
III. कर्माऽपि - नन्वविद्या तृष्णा कर्म च जन्मकारणं तत्कथं तृष्णव केवला समुदय उक्त इत्याह (1)
___ कारणत्वेऽपि नोदितम्। .. अज्ञानं, उक्ता तृष्णैव सन्तानप्रेरणाद् भवे ॥१९१॥
थानन्तर्याच कर्मापि सति तस्मिन्नसंभवात् । कारणत्वेपि नोदितमज्ञानमविद्या मोहापरसंज्ञकं। उक्ता तृष्णव तयैव सन्तानस्य पञ्चस्कन्धसन्ततःप्रेरणात्' किमर्थं भवे(१९१) जन्मनिमित्तं कपि हेतुत्वेऽपि नोक्तं समुदयत्वेन सति तस्मिन्नशाने कर्मणि च। तृष्णाऽसंमुखीभावेऽभावाज्जन्मनः। आनन्तर्याच्च तृष्मायाः सतोरपि मोहकर्मणोस्तृष्णाया असंमुखीभावे जन्मन आक्षेपकत्वासंभवात् यथा विमुक्ति (:) चित्तस्येत्युक्तः समुदयः ।
सदनात्यन्तिकं हेतोः प्रतिबन्धादिसम्भवात् ॥१९२॥ सदेतचयोक्तकारण (समुदय) स्वभावं दुःखमनात्यन्तिकं संभवदुच्छेदं दुःखहेतोस्तृष्णायाः प्रतिबन्धस्य संभाव्य मानत्वात् । आदिशब्दादविद्यादेः सहकारिणो वैकल्यसम्भवात्। .. अनेन निरोष एव नास्तीति वादि 'नः प्रतिनिरोधत इति कथितं।
(ग) निरोधसत्यम् संसारित्वादनिर्मोक्षो नेष्टत्वादप्रसिद्धितः । ननु संसारित्वादनिम्मोको मुक्तिर्नास्ति कस्यचित् । तत्कथं निरोषसम्भावना। नैष दोष इष्टत्वात्। को नाम मुक्तिं संसारिण इच्छति। अप्रसिद्धितस्तस्य। न हि संसारी कश्चिदस्ति । किन्तु दुःखं केवलं हेतुबलात्प्रवर्तते तदभावाच्च न भवतीति ब्रूमः ।
- इयमेव प्रभविष्णुत्वात् प्रभवः।
मीमांसकादयः।
आनन्ताच्च तृष्णामाः।