________________
I संसार्यभावे मुक्ति पवस्या यदि संसारी कश्चिन्नास्ति को मुक्त्यर्थी किमर्थं प्रवर्तते इत्याह (1)
यावच्चात्मनि न प्रेम्णो हानिः स परितस्यति ॥१९३॥
तावद् दुःखितमारोप्य न च स्वस्थोऽवतिष्ठते । यावच्चात्मनि एकत्वाहंकारविषयेषु स्कन्धेषु प्रेम्णः स्नेहस्य न हानिस्तावद् दुःखितमात्मानमारोप्य स प्राण्यभिमतो दुःखसन्तानः परितस्यति (१९३) दुःखमास्ते। न च दुःखहेत्वपगमोपायाभ्यां स क्लेशम्विना स्वस्थोऽवतिष्ठते। किन्तु (1)
मिथ्याध्यारोपहानार्थ यत्नोऽसत्यपि मोक्तरि ॥१९४॥ - मिथ्याध्यारोपस्य संसारित्वाध्यवसायस्य हानार्थ यत्नोऽसत्यपि कस्मिंश्चिदात्मादौ मोक्तरि। न हि यथावस्त्वेव व्यवहारः। किन्तु यथावसायञ्च । तथाहि रज्जुरपि साध्यवसायविषयत्वात् परिहारविषयः। एवमहमेव बद्धोऽहमेव मोक्ष्यामीत्यध्यारोपान्मुक्त्यर्थ व्यायामः । (१९४)
II. मुक्तानां संसारे स्थितिःभवत्वात्मग्रहविपर्यस्तानां सुखाद्यभिलाषात्प्रवृत्तिलक्षणा संसारे स्थितिरुन्मीलितात्मग्रहयोनिसकलदोषराशयस्तु कस्मादासत इत्याह (1)
अवस्था वीतरागाणां दयया कर्मणाऽपि वा। . a. अवस्था वीतरागाणां दययापि कर्मणापि वा वीतमोहानामपि दुःखाद् दुःख'हेतोश्च लोकमुद्धर्तुकामतया स्थितिः। तावत्कालानुबन्धिशरीराक्षेपकेन कर्मणा वा स्थितिः। तदेवाह (1)
आक्षिप्तेऽविनिवृत्तीष्टेः; आक्षिप्ते कर्मणा कायेऽविनिवृत्तेनिवृत्यभावस्येष्टेः। यद्येवं जन्मान्तराक्षेपकस्य कर्मणः सद्भावात् भवान्तरञ्च स्यादित्याह
सहकारिक्षयादलम् ॥१९५॥ नाक्षप्तुमपरं कर्म भवतृष्णाविलंपिनाम् ।
'तत्र च ते प्रेक्षकाः।