________________
प्र० वा० वृत्तौ (१ परिच्छेदः)
सहकारिण आत्मात्मीयादिविपर्यासज्ञानस्य तृष्णायाश्च शयानालं ( १९५) न शक्तं कर्माक्षेप्तुमपरं भवं भवतृष्णाविलंधिनां । तृष्णालंघना नैरात्म्यदृष्टिरित्यात्मात्मीयादिमोहनिवृत्तिश्चोक्ता । अनेन सहकारिवैकल्यमुक्तं ।
ननु दया' सत्त्वदर्शनात् तच्च क्षीणं मुक्तानां तत्कथन्दयया स्थितिरित्याह ( 1 ) • दुःखज्ञानेऽविरुद्धस्य पूर्वसंस्कारवाहिनी ॥१९६॥ दयोत्पत्तिर्न सा सत्वानुरोधिनी ।
वस्तु
७८
दुःखस्यानित्यदुःखशून्यानात्मकाकारस्य ज्ञाने सत्यविरुद्धस्य द्वेषाभावात् सव्वैशाप्रतिह' तस्य पूर्व्वसंस्कारवाहिनी (१९६) पूर्वाभ्यासप्रवृत्ता या दयोत्पत्तिः सान सत्वानुरोधिनी सत्त्वदृष्टिवशा किन्तु वस्तुनो दुःखस्य कृपाविषयतयाऽभ्यस्तस्य धर्मः । उन्मूलितात्मदृष्टीनामपि दुःखस्य कृपाविषयतयाऽभ्यस्तस्य संमुखीभावarrated इत्यर्थः ।
b. एवन्तर्हि रागोपि मुक्तानां ' स्यादित्याह ( 1 )
आत्मान्तरसमारोपाद् रागो धर्मेऽतदात्मके ॥ १९७॥
तस्य स्थिरसुखात्मात्मीयरूपस्यारोपात् धर्मे स्कन्धमात्ररूपेऽतवात्मके ...वस्तुनोऽस्थिरादिस्वभावे रागोऽभिष्वङ्गरूपो भवति ।। ( १९७) । दुःखसन्तानसंस्पर्शमात्रेणैवं दयोदयः ।
दयोदयस्तु दुःखसन्तानस्य संस्पर्शो दर्शनं तन्मात्रेणैवं भवति । न तत्र सत्त्वदर्शनापेक्षा ।
c. यथा दुःखदर्शनात् दयोत्पत्तिस्तथापकारिणि द्वेषोपि स्यादित्याह (1) मोहश्च मूलं दोषाणां स च सत्वग्रहः;
मोहश्च मूलमादिकारणं दोषाणां स च मोहः सत्त्वग्रहः । उन्मूलितसत्त्वदृष्टेश्च । ( १९८)
विना ॥ १९८ ॥
तेनाद्यहेतौ न द्वेषो, न दोषोऽतः कृपा मता ।
शास्तुः ।
" द्वेषो हि कृपाविरोधी स प्रहीणद्वेषः । ३ करुणाया । * एतेन धर्मालम्बनी कृपोक्ता 8 उक्तस्कन्धेभ्योऽन्यत्वादन्तरशब्दः । " इति रागावन्या कृपा । t अमूढस्य पापावृत्तेः ।