________________
.. निरोषसत्यम् .....: तेन सत्त्वग्रहेण विनाऽद्महेतावपकारिणि न देषोस्ति आत्मनोऽदर्शनातदपकारभ्रान्त्यभावात्। अतो दोषमूलस्यात्मग्रहस्याभावादुत्पद्यमाना कृपा न दोषो मता (1) b. यदि पूर्वकावेधतस्तदैव न निर्वाणं' तदा सांसारिकतैव स्यादित्याह(1)
नामक्तिः पूर्वसंस्कारक्षयेऽन्याप्रतिसन्धित्तः ॥१९९॥ अक्षीणशक्तिः संस्कारो येषां तिष्ठन्ति तेऽनघाः ।
मन्दत्वात् करुणायाश्च न यत्नः स्थापने महान् ॥२००॥ नामुक्तिः किन्तु मुक्तिरेव पूर्वसंस्कारक्षये पूर्वकर्मावेधक्षये सत्यन्यस्य दुःखस्य हेतुवैकल्यादप्रतिसन्धितः। (१९९) येषां पुनर्महाकृपाणां प्रणि धानपरिपुष्टस्य जन्माक्षेपककर्मणः संस्कारोऽक्षीणशक्तिस्तेऽनघाः सम्यक्सम्बुद्धाः यावदाकाशन्तिष्ठन्त्येव। श्रावकाणान्तु कर्मणो नियतकालस्थितिकदेहाक्षेपकत्वान्मन्दत्वात् करणाया यत्नश्च महान् स्थापने नास्तीति न सदा स्थितिः (। २००)
. तिष्ठन्त्येव पराधीना येषां तु महती कृपा ।
तिष्ठन्त्येव सर्वदा ते पराधीनाः परेषामुपकरणीकृतात्मानो महामुनयः। येषामकारणवत्सलानां महती कृपा।
III. सत्कायवृष्टविगमः सत्कायदृष्टेविंगमादाद्य एवाभवो भवेत् ॥२०१॥
मार्गे चेत् सहजाहानेने हानौ वा भवः कुतः। a. नन्वाद्य एव मार्गे दर्शनमार्गे सत्कायदृष्टव्विगमात् स्रोत आपन्नस्य भवो जन्मान्तरबन्धो न भवेदिति चेत् (२०१)। सहजाहाने । द्विधा हि सत्कायदृष्टिराभिसाँस्कारिकी या स्कन्धव्यतिरिक्तात्माध्यवसायिनी, सहजा च। तत्र प्रथमा दर्शनमार्गे हीयते न द्वितीया भावनामार्गहेया। सा च मोहः तृष्णायाश्च हेतुरिति भवति जम्मप्रबन्धः। यदि तु पटुतरप्रज्ञस्याद्य एव माग्! माग्र्गान्तरस्वभावः तदा हानौ वा सहजाया आत्मदृष्टः पुनर्भवः कुतः। b. कीदृशं पुनस्तत्सहजसत्त्वदर्शनमित्याह (1) १ सुखी भवेयं दुःखी वा मा भूवमिति तृष्यतः ॥२०२॥ - यैवाऽहमिति धी: सैव सहजं सत्त्वदर्शनम् ।
'किन्तु स्थितिस्तहि कुपापरवशस्य।