________________
८०
प्र० वा० वृत्तौ (१ परिच्छेदः) सुखी भवेयं दुःखी वा माभूवमिति तृष्यतः। कांक्षमाणस्य यैवाहमिति धीः सैव सहजं सत्त्वदर्शनमुच्यते। c. तदप्रहीणं स्रोत आपन्नस्येति कथं ज्ञायत इत्याह (1)
न ह्यपश्यन्नहमिति कश्चिदात्मनि स्निह्यति ॥२०३।।
न चात्मनि विना प्रेम्णा सुखकामोऽभिधावति । नापश्यन्नहमिति कश्चिदात्मनि स्निह्यति किन्तु पश्यन्नेव (२०३) । न चात्मनि विना प्रेम्णा सुखकामः कश्चिद् गर्भस्थानादिमभिधावति। अभिधावति I5b च गर्भस्थानं (1) प्रहीणाभिसंस्कारिक सत्त्वदृष्टिरपि स्रोत आपन्नं तदस्यापहीणं सहजं सत्त्वदर्शनं।
IV. बंधमोक्षव्यवस्था ननु सत्यात्मनि बन्धमोक्षावेकाधिकरणौ युक्तौ। नेत्याह।'
दुःखस्योत्पादहेतुत्वं बन्धः, नित्यस्य तत् कुतः ॥२०४॥
अदुःखोत्पादहेतुत्वं मोक्षः, नित्यस्य तत् कुतः । a. दुःखस्योपादानस्कन्धानामुत्पादहेतुत्वं बन्धः। तत्कुतो नित्यस्य क्रमयोगपद्याभ्यामर्थक्रिया विरहात् (२०४)। अदुःखोत्पादहेतुत्वं दुःखं प्रत्ययहेतुता मोक्षः । तच्च नित्य स्य कुतः। न हि पूर्वापरैकस्य भावस्य दुःखहेतोः पश्चादहेतुत्वं युक्तं । ____b. स्यादेतत् (0) न नित्यस्य हेतुत्वं बन्धमोक्षौ च युक्ताविति । नित्यत्वानित्य त्वाभ्यामवाच्यस्य पुद्गलस्य तौ भविष्यत इति मन्वानं वै भा षि क म्प्रत्याह (1)
अनित्यत्वेन योऽवाच्यः स हेतुर्न हि कस्यचित् ॥२०५।। अनित्यत्वेन योऽवाच्यः। अनित्यत्वमुपलक्षणं । नित्यत्वेनाप्यवाच्यः सहेतुर्न हि कस्यचित् । तस्मैवाभावात् । तथाहि यद्यसावनित्यो न भवति स्यान्नित्यः । (२०५)
अथ नित्यो न भवति स्यादनित्यः। अन्योन्याभावलक्षणत्वादनयोरेकविधि प्रतिषेधस्यापरप्रतिषधविधिनान्तरीयकत्वात् न क्वचिद्वस्तुनि द्वयप्रतिषेधसम्भव इति पुद्गलस्याभावादहेतु त्वं अतो बन्धमोक्षावप्यवाच्ये पुद्गले न युज्यते कथञ्चन।
१ सत्यमप्यात्मनि बन्धाद्यभावमाह। 'बन्धासिद्ध।।