________________
मार्गसत्यम् c. अथ नित्यत्वेनावाच्यत्वान्न दोष इति चेत् । नन्वेवनित्य एवोक्तः स्यात्। तथाहि' (1)
नित्यं तमाहुर्विद्वांसो यः स्वभावो न नश्यति ॥२०६॥ नित्यं तमाहुम्विद्वांसो यः स्वभावः सर्वदा न नश्यति स चेदीदृशो न भवत्यनित्य एव स्यात् । (२०६)
त्यक्त्वेमा हेपणी दृष्टिमतोऽनित्यः स उच्यताम् । अक्षेमां पुद्गलदृष्टि पुद्गलनैरात्म्यवादिनः संस्कारानित्यतावादिनश्च शास्तुः शिष्याणां हेपणी लज्जावर्द्धनीं त्यक्त्वाऽनित्यः स पुद्गल उच्यतां येन बन्ध मोक्षौ युज्यते। एकाकारो निरोधो व्याख्यातः। ॥x।
(घ) मार्गसत्यम्
(चतुराकारं मार्गसत्यम्) त्रय आकारा वक्ष्यन्ते।
उक्तो मार्गः, तदभ्यासादाश्रयः परिवर्तते ॥२०७॥ मार्गसत्यं चतुराकारं वक्तुमाह (1)
a. उक्तो मार्गः शास्तृपदव्याख्यावसरे नैरात्म्यदर्शनलक्षणः। तस्याभ्यासादाश्रयः क्लेशवासनाभूतमा ल य विज्ञानं परिवर्तते क्लिष्टदशानिरोधात् क्लेशविसंयुक्तचित्तप्रबन्धात्मना परिणमति । (२०७) । अनेन मार्गत इति मार्गाकारो दर्शितः क्लेशविसंयोगहेतुत्वात्।
सात्म्येऽपि दोषभावश्चेन्मार्गवत् । मार्गस्याभ्यासप्रकर्षात् सात्म्यपि प्रकृतित्वे च प्राप्ते पुनर्दोषाणां मोहादीनां भावः प्राप्नोति चेत्। मार्गवत् यथा बन्धावस्थायां दोषसात्म्येपि मार्गोऽभ्यासवशादाविर्भवति। अत्राह (।)
नाविभुत्वतः।
'न नित्यमन्यदेव किञ्चिद्यावता। "उपायाभ्यास एवायन्तादात्म्याच्छासनं मतमि" (११४०) त्यनेन भ्रान्तिनिवर्तकागमनकालमात्रमस्यावस्थानात्।
११