________________
प्र० वा० वृत्तौ (१ परिच्छेदः) ___नाविभुत्वतः असामर्थ्यात्। मार्गसात्म्येऽपि स्थितस्य चेतसि न दोषाणामुत्पत्तुं सामर्थ्य मस्ति। तन्निदानभूतस्य सत्वदर्शनस्योन्मूलितत्वात् । अनेन शान्तत इति निरोधाकार उक्तो दोषाणां सर्वथा शान्तत्वात् ।'
ग. सत्कायदृष्टिः - (क) सत्वदर्शनाभावे कारणम् सत्वदर्शनमेव पुनः कस्मान्न भवतीत्याह (1)
विषयग्रहणं धर्मों विज्ञानस्य यथास्ति सः ॥२०८॥
गृह्यते सोऽस्य जनको विद्यमानात्मनेति च । - विषयग्रहणम्विज्ञानस्य तावत्सति ग्राह्यग्राहकभावो धर्म: यथा चास्ति स स विषयस्तथा गृह्यते। विज्ञानेन विषयिणा (२०८)। स च विषयोस्य विज्ञानस्य जनको विद्यमानेनात्मना यथावस्थितेन रूपेण।
एषा प्रकृतिरस्यास्तन्निमित्तान्तरतः स्खलत् ॥२०९॥
व्यावृत्तौ प्रत्ययापेक्षमदृढं सर्पबुद्धिवत् । यथावस्थितवस्तुग्रहणञ्च नात्मैषा प्रकृतिः स्वभावो ज्ञानस्य विषयिणः । यथास्वभावं स्वग्राहिज्ञानजननञ्च विषयस्य प्रकृतिः। अस्याः प्रकृतेस्तज्ज्ञानं निमित्तान्तरतः आन्तरादविद्यारूपादागन्तुकाच्च विषयदोषादेः स्खलद्विषयग्रहणविपरीताकारं भवति (१२०९) तच्च व्यावृत्तौ विषयविपरीतग्रहणाकारताया निवृत्त्यर्थ प्रत्ययापेक्ष भ्रान्तिनिवर्तककारणमपेक्ष्यमाणमदृढमस्था ष्णु सर्पबुद्धिवत् । यथा सर्पबुद्धी रज्वा भ्रान्तिनिमित्ता' जाता रज्जुस्वरूपग्राहिणः प्रत्ययान्निवृत्ता न पुनरुद्भवतीति। तथा भ्रान्तिनिमित्तनिरासात् दृष्टे नैरात्म्ये वस्तुनि सति नास्ति सत्त्वे दृष्टिसम्भवः' ज्ञानस्य विषयस्वरूपग्रहणप्रवणत्वात्। विषयस्य च स्वाकारार्पणप्रवृत्तत्वात्। a. किञ्च (1)
प्रभास्वरमिदञ्चित्तं प्रकृत्यागन्तवो मलाः ॥२१०॥ प्रभास्वरमनात्मभूतदोषसञ्चयमिदं चित्तं प्रकृत्या स्वभावेन। ये तु मनोदोषा
'प्रकृतिशुद्धहेमवत्। 'अर्थपाहिज्ञानमिच्छतो वक्तव्यः। 'सत्वाध्यवसायि। मन्दमन्वप्रकाशे सोंचिते प्रदेशे। 'असहजागन्तुर्दोषः। नैरात्म्यं प्रकृतिः प्रमासिद्धिः।