________________
७२
प्र० वा. वृत्तौ (१ परिच्छेदः)
IV. चतुराकर दुःखसत्यम् दुःखसत्यञ्चानित्यतो दुःखतः शून्यतोऽनात्मतश्चेति चतुराकारमाख्यातुमाह (1)
कदाचिदुपसम्भात् तदध्रुवं दोषनिश्रयात् ॥१७८॥
दुःखं हेतुवशत्वाच न चात्मा नाप्यधिष्ठितम् । कदाचिदुपलम्भाद् दुःखमध्रुवमनित्यं। दोषनिश्रया'त रागादिदोषाश्रयेणोत्प। (१७८) हेतुवशत्वाच्च । सव्वं परवशं' दुःखमिति न्यायात् दुःखं तत्। न बात्माश्रयं । अना त्मनः आत्मविलक्षणत्वात्। ना प्यधिष्ठितं । अधिष्ठातुरात्मनोऽभावात्। अनेन शून्यत इत्याख्यातं।। - कस्मात्पुनरात्मा नाधिष्ठातेत्याह
नाकारणमधिष्ठाता नित्यं वा कारणं कथम् ॥१७९॥ नाकारणमधिष्ठाताऽतिप्रसङ्गात् । नित्यं वा द्रव्यं कारणं कथं (1) तस्य क्रम- ' योगपद्याभ्यामर्थक्रियाविरहात्। (१७९)
तस्मादनेकमेकस्माद् भिन्नकाल न जायते। .. तस्माइने भिन्नकालदृश्यमान सुखदुःखादिकार्य नैकस्माज्जायते एकस्यानेककरणे समर्थस्य सकृदेव तत्क्रियाप्रसङ्गात्।
कार्यानुत्पादतोऽन्येषु सङ्गतेष्वपि हेतुषु ॥१८॥
हेत्वन्तरानुमानं स्यान्नैतन् नित्येषु विद्यते। किञ्चा'नेकेषु हेतुषु सङ्गतेषु मिथो मिलितेष्वपि कार्यानुत्पादतो (१८०) . हेत्वन्तरानुमानं स्यात् (1) यथा रूपालोकमनस्कारेषु सत्स्वपि चक्षुविज्ञानमनुत्पद्यमानं चक्षुरनुमापयति। नैतत्कार्यानुत्पत्त्याऽनुमानं नित्येषु विद्यते तेषामव्यति 'रेकित्वात् (1)
• (ख) समुदयसत्यम्
___I. चतुराकारः समुदयः चतुराकारं दुःखं व्याख्याय समुदयतो हेतुतः प्रत्ययतः प्रभवतश्चेति चतुराकारं -समुदयं व्याख्यातुमाह (1) ।
सासवत्वात् उत्पत्या क्लिश्यन्ति विपाकेन च। हेतुवशत्वाच्च । नात्मीयं सभागतो जातत्वात्। तद्व्यतिरेकेपि कार्योत्पत्तेः।