________________
.
१ f. न रूपव रागोऽपि भूतधर्मः
स्यादेतद् (1) भूतधर्मो रूपादिर्यथावश्यं अभूत्वा भवति तथा रागोपि देहिनः स्यादित्याह (1)
रूपादिवन्न नियमस्तेषां भूताविभागतः। . तत् तुल्यञ्चन्न रागादेः सहोत्पत्तिप्रसङ्गतः ॥१७६॥
रूपा' विवन्न नियमो रागादेस्तेषां रूपादीनां भूताविभागतः। न हि रूपादिसामान्यं विना. भूतानि वर्तते। रागादेरपि तद्भूताविनिर्भागवत्तित्वं तुल्यञ्चेत् । नैतदस्ति। रागा देर्भूतैः सहोत्पत्तिप्रसङ्ग तो विषयैः कादाचित्कसन्निधाननियमितत्वात्। (१७६) न सहोत्पादप्रसङ्ग इति चेदाह (1)
विकल्प्यविषयत्वाञ्च विषया न नियामकाः।
सभागहेतुविरहाद् रागादेनियमो न वा ॥१७७॥ - विकल्प्यः कल्पितस्तद्विषयत्वाच्च रागादेविषया रूपादयोऽग्राह्यत्वान्न नियामकाः। किञ्चाविज्ञानस्य विज्ञानहेतुत्वात् नेत्यु क्तं। त्वन्मते सभागस्य च हेतोविरहात रागादेनियमो देशकालस्वभावविषयो न वा स्यादहेतुत्वात्। (१७७),
f. न भूतान्येव हेतुः भूतान्येव हि हेतुरिति चेत्।
सर्वदा सर्वबुद्धीनां जन्म वा हेतुसन्निधेः । तहि सर्वदा सर्वबुद्धीनां सुखदुःखेच्छाद्वेषराग कृपादीनां जन्म. वा स्यात्।। हेतो तसंघातस्य सन्निधेः। तदेवं रागादेः पाटवेक्षणादित्यादिना चतुणामरूपिणां - स्कन्धानां सभागहेतुकत्वे साधिते साधितं संसारित्वमुपादानस्कन्धानां त एव दुःखमित्युक्ताः।
सामान्यमत्र विशेष व्यभिचारात्।। ? सहवृत्तिनियमेनेत्यर्थः। सामान्यं कर्तृ। द्वेषादेर्युगपत् रागाविहेतुः। ४ अविज्ञानं न विज्ञानहेतुरित्युक्तं परं प्रति। इदानीमपि परं प्रत्याह। 'वा समुच्चयार्थः। .
यद्यपि तणादयो हस्त्यात्मना परिणतास्तत्रापि तेषां न तच्छक्तिरस्ति। • दुःखसत्यव्याल्यारम्भ।