________________
६९
तथाहि यदि शक्तिरभिव्यक्तिरूपाद् विज्ञानादन्या तदाऽविज्ञानत्वं सिद्धं ।
अथान्यथा तदा (1)
दुःखसत्त्यम्
यद् रूपं दृश्यतां यातं तद् रूपं प्राङ न दृश्यते ॥१६८॥ शतधा विप्रकीर्णेऽपि हेतौ तद् विद्यते कथम् ।
यद्रूपं ख्या' नाख्यं दृश्यतां यातमभिव्यक्तावस्थायां तद्रूपं प्राक् शक्त्यवस्थायां शतधापि विप्रकीर्णे हेतौ न दृश्यते ( १६८ ) । कथन्तद्विद्यत इति नाविज्ञानत्वमसिद्धं (1)
किञ्च (1)
रागाद्यनियमो ऽपूर्वप्रादुर्भावे प्रसज्यते ॥१६९॥
तदाऽपूर्व्वसत्त्वप्रादुर्भावि
न चेत् परलोकादागच्छति चित्तसन्तानः रागाद्यनियमश्चक्षुराद्यनियमवत् प्रसज्यते । यथा चक्षुः करचरणश्यामतानियमः पुरुषे नेक्ष्यते कदाचित् कस्यचिदभावदर्शनात् । तथा रागी रागितरो नीरागश्च कश्चित् स्यात् । (१६९)
d. भूतात्मतया समानरागताप्रसङ्गात् ।
भूतात्मताऽनतिक्रान्तः सर्वो रागादिमान् यदि ।
सर्वः समानरागः स्याद् भूतातिशयतो न चेत् ॥ १७० ॥ भूतानां प्राणिताऽभेदेऽप्ययं भेदो यदाश्रयः । तन्निर्ह्रासातिशयवत् तद्भावात् तानि हापयेत् ॥ १७१॥
भूतात्मताया अनतिक्रान्तः सर्व्वः पुमान् रागादि' मान् यदि तदा सव्वंः समानरागः स्यात्। भूतात्मताया अविशेषात् । भूतानामवान्तरादतिशयतः समानरागता प्रसङ्गो न चेत् (१७०) भूतानां प्राणिताया अभेदेप्ययं भेद उत्कटमन्दरागत्वादिको यदाश्रयो यदवान्तरविशेषवत् कारणमाश्रित्य तत्कारणं निर्ह्रासातिशयवत् अपच* यतारतम्यवत् तद्भावाद्रागादिमत्त्वात् तानि भूतानि हापयेत् भ्रंशयेदिति नीरा गोपि कश्चित् सत्त्वः स्यात् । (१७१)
१ आदिना सुखादयः ।
२ अयं प्राणी प्राणितरः प्राणितम इत्यभेदे ।
३ भूतातिशयं । ® यो यत्रोत्कर्षवान् स तत्र सम्भवदुच्छेदधर्म्माद्यनिबन्धनं रागादि निवर्तयेत् तत्र शुक्लत्वादिहेतुवत् ।