________________
प्र० वा० वृत्तौ (१ परिच्छेदः) क्वचिदपि भेदसिद्धिः। यदि च देहचित्तयोरैक्यं तदा आविकारञ्च कायस्य यावन्न विक्रियते देहन्तावतुल्यमेकाकारम्भवेन्मनो (१६४) रूपादिवत् ।
b. वासनाभेदतो भेदात्
. स्यादेतत् (1) एक रूपत्वेपि देहस्वार्थानां नानारूपत्वात् ज्ञानमपि तथे3b त्याह(1)
विकल्पस्य कैवार्थपरतन्त्रता। विकल्पस्य कैवार्थपरतन्त्रता। येनार्थनानात्वात् कल्पनापि तथा स्यात् । .... अनपेक्षितसन्निधयः उपादानवशेन विकल्पाः प्रवर्तन्ते इति वासनाभेदादेषां भेदः ।
अनपेक्ष्य यदा कायं वासनाबोधकारणम् ॥१६५॥ ज्ञानं स्यात् कस्यचित् किञ्चित् कुतश्चित् तेन किञ्चन ।
अविज्ञानस्य विज्ञानानुपादानाच सिध्यति ॥१६६॥ एवञ्चा 'नपेक्ष्य यदा कार्य किञ्चिज्ज्ञानं वासनाबोधस्य प्रबोधस्य कारणं स्यात् । (१६५) कस्य चिदुत्पद्यमानस्य ज्ञानस्य तदा तेन प्रबोधकानुरोधेन , कुतश्चिज्ञानादनन्तरं किञ्चन ज्ञानं स्यादिति सुस्थमस्य पक्षे। अविज्ञानस्य विज्ञानशून्यस्य लोष्टादेविज्ञानानुपादानाच्च' सिध्यति विज्ञानादेव विज्ञान। .
c. अविज्ञानतो विज्ञानानुत्पादात्।
विज्ञानशक्तिसम्बन्धादिष्टश्चेत सर्ववस्तुनः।
एतच्छांख्यपशोः कोऽन्यः सलज्जो वक्तुमीहते ॥१६७॥ __ अदृष्टपूर्वमस्तीति तृणाप्रे करिणां शतम् । सर्वस्य वस्तुनो विज्ञानशक्तिसम्बन्धादविज्ञानाद्विज्ञानानुत्पादनमिष्टं चेत्। एतद्विज्ञानस्य शक्तिरूपतयाऽवस्थानं सां ख्यपशोः कोऽन्यः सलज्जो वक्तुमीहते। (१६७) यो ब्रूयादवृष्टमपि तृणाग्रे करिणां शतमस्तीति।
• भिन्नभिन्नार्थाकार मनोज्ञानं न स्यात्।
स्वमतं समर्थयते। कार्यस्य। एतच्च तयोविरोधात् ।
न भूतधर्मत्वप्रतिपादेरेव। अविज्ञानान विज्ञानमिति यदुक्तं तविष्टमेव सांख्यस्येति सिद्धसाधनं। . सर्वत्र शक्तिव्यक्ती तन्मतेन।
सिद्धसापनत्वं परिहरति। .
-