________________
प्र० वा० वृत्तौ (१ परिच्छेदः) तयोरसमरूपत्वान्नियमश्चात्र नेक्ष्यते ।
• तयो रागद्वेषयोरसमरूपत्वाद्विरुद्धत्वात् तदुत्पादिकयोरवस्थयोरपि विरोधः । स्यादेतद्रागोत्पादिकायामवस्थायां द्वेषो न भवत्येवेत्याह ( 1 ) नियमश्चात्र नेक्ष्यते । श्लेष्मावस्थो रागी न द्वेषीति नात्र नियमः ।
६६
तवापि कस्मादमी समराग प्रसङ्गादयो दोषा न भवन्तीत्याह ( 1 )
खजातिवासनाभेदप्रतिबद्धप्रवृत्तयः ॥१५९॥
यस्य रागादयस्तस्य नैते दोषाः प्रसङ्गिनः ।
सजातिवासना आत्मात्मीयग्रहमूलस्य स' जातेः पूर्व्वपूर्व्वाभ्यस्तस्य रागादेसनाऽपरापररागादिजनिकाः शक्तयः तासां भेदः परस्परतः तत्र प्रतिबद्धा प्रवृत्तिर्जन्म येषां ते तथा (१५९) रागादयो यस्य बौद्धस्य मते तस्य नैतेऽनन्तरमुक्ता दोषाः प्रसङ्गिनः ।
III. रागादीनां भूतधर्मत्वनिरासः
एतेन भूतधर्मत्वं निषिद्ध;
एतेन वातादिधर्मत्वनिषेधेन भूतधर्मत्वं निषिद्धं रागादेब्बोद्धव्यं दोषाणां मरुत्तेजोऽम्भःस्वभावत्वात् । "
भवन्तु सभागहेतुकाः पृथिव्याद्याश्रितास्तु स्युर्द्धवलादिवदित्याह ।
निश्रयस्य च ॥ १६०॥ निषेधान्न पृथिव्यादिनिः श्रिता धवलादयः ।
निश्रयस्याश्रयस्य निषेधादनाश्रयात्सदसतोरित्यादिना न पृथिव्यादिनिःश्रिता धवलादयोपि । कुत एव रागादयः ।
कथन्तर्हि भूतान्याश्रित्योपादाय रूपमुत्पद्यत इतीष्टमित्याह (1)
तदुपादाय शब्दश्च हेत्वर्थः स्वाश्रयेण च ॥१६१॥ श्रविनिर्भागवर्तित्वाद् रूपादेराश्रयोऽपि वा
' सत्कायदर्शनस्य । " वातपित्तश्लेष्मणां क्रमात् महदादित्वेन रागादेर्भूतधर्मत्वं न भूतधर्मत्वे हेतुरयं ।
'स्वसबुशहेतुका रागादयः सुराशक्त्योरिव ।