________________
.. दुःखसत्यम् , क्षयादसलुतोऽप्यन्ये; क्षयाच्छुक्रस्यासृक्श्रु(? सु)तो रक्तं क्षर'न्तोप्यन्ये रागबहुला दृष्टा इति शुक्रमपि न रागहेतुः। . किञ्च (1)
नैकसीनियतो मदः। नैकस्त्रीनियतो मदः । न ह्येकां स्त्रियमपेक्ष्य शुक्र शुक्रीभवति। अपि तु साः ।
तेनैकस्यां न तीव्रः स्याद्, अङ्गरूपाद्यपीति चेत् ॥१५६॥ तेन साधारणत्वेन शुक्रस्य तज्जन्यो राग एकस्यां स्त्रियां न तीव्रः स्यात् किन्तु साधारणः। अङ्गरूपाद्यपीति चेत् । (१५६) • e. रूपयौवनोपचारादि च सहकारि रागवृद्धेरिति चेत्।
न सर्वेषामनेकान्तान्न चाप्यनियतो भवेत् ।
अगुणग्राहिणोऽपि स्यात, अङ्ग सो ऽपि गुणग्रहः ॥१५॥ न युक्तमेतत् । सर्वेषां रूपादीनामनेकान्तत्वात रूपादिरहितेष्वपि रागोत्कर्षदृष्टः । किञ्च (1) यदि शुक्रं रूपादि च स्त्रियाः कारणं रागस्य तदा न चाप्यनियतोऽविषयीकृतस्त्रीविशेषः साधारणो रागो न भवेत्। रूपादिसहकारिणोऽव्यापारात्। तथा रूपवत्या गुणमशुभाभावनाभावितं गृह्णतोपि रागः स्यात्। शुक्ररूपयोस्तद्धत्वोंः सद्भावात्। अङ्गन्निमित्तं सोपि गुणग्रहस्ततोऽशुभां भावयतो न स्याद्रागः (११५७)
यदि सर्वो गुणग्राही स्याद्, हेतोरविशेषतः । यदि सर्वः शुभाशुभभावको गुणग्राही स्यात् । गुणग्रहस्य हेतो रूपादेः सर्वान् प्रत्यविशेषतः। किञ्च (1)
__ यदवस्थो मतो रागी न द्वेषी स्याच तादृशः ॥१५८॥ यदवस्थः श्लेष्मप्रकृतिस्थः पुरुषो रागी मतस्तदवस्थो न द्वेषी स्यात् । (१५८)
कुत इत्याह (1)
१ इन्द्रियेण। कस्यचिद् भवति च ततो न मवः कारणं रागस्य। रूप उपचारगुणरागी चेति त्रिविष आदिना रागी।