________________
प्र० वा० वृत्तौ (१ परिच्छेदः)
विशेषेपि च दोषाणां प्रकोपादिनाऽविशेषात् रागादीनां न दोषपरिणामहेतुता । (१५२)
नवविशेषादित्यसिद्धो हेतुः । कफाद्युत्कर्षे रागाद्युत्कर्षदृष्टेरित्याह ।
असिद्धता ॥१५२॥
न विकाराद् विकारेण सर्वेषां न च सर्वजाः ।
c. नासिद्धताऽविशेषस्य । तथा हि सव्र्व्वेषां कफादीनां विकारे' णोत्कर्षेण पीडया विकारात् द्वेषो भवति न रागादयः । सर्व्वजत्वाददोष इति चेत् । न च सर्व्वजाः समरागतादिप्रसङ्गादित्युक्तेः ॥
किञ्च (1)
कारणे वर्द्धमाने च कार्यहानिर्न युज्यते ॥ १५३ ॥ तापादिष्विव
;
सन्निपातावस्थायां कारणे कफादिके वर्द्धमाने कार्यस्य रागादेर्हानिर्न युज्यते (१५३) तापादिष्विव तापादीनामिव पित्तादिवृद्धौ ।
d. स्यादेतद् (1) दोषाणां साम्ये रागादयो भवन्ति वैषम्ये तु द्वेषादयः । ततो विशेषेपि दोषाणां न विशिष्यन्ते रागादय इत्यसिद्धों हेतुरित्याह (1)
за
रागादेविकारोऽपि सुखादिजः ।
रागावेर्दोषसाम्यावस्थायां विकारोपि वृद्धिलक्षणो यः स सुखादिजः आन्तरधातुसाम्यस्पर्शप्रभवेन सुखादिना वर्द्धन्ते रागादयः ।
वैषम्यजेन दुःखेन रागस्यानुद्भवो यदि ॥ १५४॥ वाच्यं केनोद्भवः साम्यान्मदवृद्धिः स्मरस्ततः ।
वैषम्यजेन दुःखेन द्वेषस्योत्पादनात् तद्विरुद्धस्य रागस्यानुद्भवो यदि मतः (१५४) तदा वाच्यं केन हेतुना रागस्योद्भवः । साम्याद् दोषाणां मदस्य शुक्रस्य वृद्धि: (1) स्मरो रागः । शुक्रवृद्धेर्यदीष्टमेतदप्ययुक्तं यतः ( 1 )
रागी विषमदोषोऽपि दृष्टः साम्येऽपि नापरः ॥ १५५ ॥
रागी विषमदोषोऽपि रागचरितः कश्चिद् दृष्टः साम्येपि नापरः प्रतिसंख्या न -बली मन्दरागप्रकृतिर्वा दृष्ट: । ( १५५ )
१ निजो योस्ति कर्कशत्वादौ ।
परा श्लेष्मादिवृद्धावपि यन रागादिवृद्धिः सा ।
1 धातुवैषम्येपि ।