________________
व्यभिचारान्न वातादिधर्मः प्रकृतिसकरात् । - अदोषश्च तदन्योऽपि धर्मः किं तस्य नेक्ष्यते ॥१५०॥ a. न व्यभिचाराद् वाताविधर्मो रागादि:- वातप्रकृतिरपि न मोहबहुलः। पित्तप्रकृतिरपि न पटुद्वेषः। श्लेष्मप्रकृतिश्च नोद्भूतरागविशेषः कश्चिद् दृश्यत इति वातादिव्यभिचारिणो मोहादयो न तद्धेतवः। प्रकृतिसंकरावदोषश्चेत् संकीर्णप्रकृतयो हि पुरुषाः प्रत्येकं वातपित्तश्लेष्मणां सत्त्वात् । अतो दोषाणां न कारणव्यभिचारः। यद्येवं तस्या द्वेषादेरन्यो' धर्मः खरत्वादिः तस्य वातादेः किन्नक्ष्यते । (१५०) ... b. अथ प्रत्येकं सर्वेषां रागादिधर्मस्ततो न व्यभिचार इत्याह (1) ......
न सर्वधर्मः सर्वेषां समरागप्रसङ्गतः। रूपादिवददोषश्चेत तुल्यं तत्रापि चोदनम् ॥१५॥
न सर्वधर्मः सर्वेषां समस्य रागस्य प्रसङ्गात्। नानाप्रकृतिकत्वेपि रागादिहेतोः समानत्वात्। रूपादिवददोषश्चेत् । यथा भूतमात्रहेतुकत्वेपि रूपादय उत्कृष्यन्तेऽपकृष्यन्ते च क्वचित् तथा रागादयोपीति चेत्। तुल्यं तत्र रूपादावपि चोदनं समत्वस्य। (१५१)
आधिपत्यं विशिष्टानां यदि तत्र न कर्मणाम् ।
आधिपत्यं विशिष्टानां कर्मणां श्रुताश्रुतलक्षणानां। यदि तत्र रूपादौ कार्ये नेष्यते भूतसहकारिणां कर्मणां वैशिष्ट्यात् रूपादिविशेष इत्यर्थः ।
स्यादेतन दोषमात्राद्रागादयोऽपि तु तेषां परिणाम विशेषात् यथा व्याधयः। ततो न समरागतादिप्रसङ्ग इत्याह (1)
विशेषेपि च दोषाणामविशेषाद् ;
१ एकः कोपनः प्राज्ञः प्रस्वेदादिमांश्च न स्यादस्ति च (1) पित्तगुणसमुदायः कोपपरिणामकाले प्रज्ञापरिणामोपि मा भूत् (1) न हि लाभे प्रवेशच्छेदेपि पित्तप्रकृतेः निःशरणं युक्तं।।
?'गन्धादिर्न वृश्यते कुतः। न वृश्यते च तबसदेतत् । ४ वातावीनां। एवं तुल्यद्वेषादयः। क्वचिद्रसः क्वचित् स्पर्शः । • रागादेर्यः स्वस्वकीयः परिणामविशेषः तवभावात्। द्वेषपरिणामभावेपि।