SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ६२ प्र० वा० वृत्तौ (१ परिच्छेदः) क. ताय: चतुः सत्यप्रकाशनम् द्वितीयलक्षणयोगमप्याह' (1) तायो वा 'चतुः सत्यप्रकाशनम् ॥१४८॥ तायो वा चतुः सत्यप्रकाशनं । परैरज्ञातस्य सत्यचतुष्टयस्य प्रकाशनम्वा तद्योगात् तायी प्रमाणं भगवानुक्तः । ( १४८ ) ख. चत्वारि आर्य सत्यानि (क) दुःखसन्त्यम् I. संसारिणः स्कन्धा दुःखम् आर्यसत्येषु दुःखमाह । ; दुःखं संसारिणः स्कन्धाः रूपवेदनासंज्ञासंस्कारविज्ञानाख्याः पञ्च संसारः । तद्वन्तो दुःखं तिसृभिर्दु : खताभिः । स्कन्धाः । जन्ममरणप्रबन्धः -ननु यदि स्कन्धा एव प्रतीत्यसमुत्पन्ना न तु कश्चित्सत्त्वो यः संसरति तदा "रागादयो यादृच्छिका अहेतवः स्युरित्याह ( 1 ) रागादेः पाटवेक्षणात् । अभ्यासान्न यदृच्छातोऽहेतोर्जन्मविरोधतः ॥१४९॥' अभ्यासाव्रागादेः पाटवस्येक्षणात् । अभ्यासादेव ते भवन्ति न तु यवृच्छातः । न ह्यकारणाद्विशेषसम्भवः । नाप्यहेतुका रागादयोऽहेतोर्हेतुरहितस्य जन्मविरोधतः । न ह्याकाशं कदाचिज्जायते । (१४९) II. रागावीनां वातादिदोषजत्वनिरासः स्यादेतत् (1) वातप्रकृतिर्मोहवान् । पित्तप्रकृतिद्वेषवान् । श्लेष्मप्रकृती रागवानिति वातादिधर्मो दोषगण इत्याह । " अज्ञातार्थप्रकाशो वा द्वितीयलक्षणं । ★ अनुलोमतो व्याख्यायेवानीं प्रतिलोमतः कार्यप्रतिपत्या कारणसिद्धिदर्शनेन प्रामान्यमाह । संसारिणः स्कन्धाः ।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy