________________
तामित्वात् भगवान् प्रमाणम्
उपायस्यापरिज्ञानाद् वा मूर्खस्य शब्दज्ञानवत् । परिकल्पयेत् ।
हेतुमत्त्वाद् विरुद्धस्य हेतुमत्त्वाद् दोषाणामनित्यत्वं ततोऽसिद्धं नित्यत्वं दोषाणां । हेतोरात्मदर्शनस्य विरुद्धस्य नैरात्म्यस्याभ्यासतः क्षयादुपायाभावोप्यसिद्धः । ( १४६)
हेतुस्वभावज्ञानेन तज्ज्ञानमपि साध्यते ॥०॥
हेतोरात्मदर्शनस्य स्वभावज्ञानेन तत् ज्ञानमपि तन्निवृत्त्युपायस्य तद्व-12b पर्ययरूपस्य ज्ञानञ्च साध्यते । यथा दाने ज्ञाते तद्विपर्ययरूपत्वान्मात्सर्यस्य तद्विपक्षताऽवसीयत इति तृतीयोप्यसिद्धः । प्रत्युक्तं सर्व्वज्ञस्य बाधनं ॥
(६) तायित्वाद् भगवान् प्रमाणम्
तायित्वं व्याख्यातुमाह ।
ताय: स्वदृष्टमार्गोक्तिः, वैफल्याद् वक्ति नानृतम् ॥ १४७॥
६१
दुःखहेतुनिवर्तकत्वेन स्वयं वृष्टस्य मार्गस्योक्तेर्देशना तायः । कारणे कार्योपचारात् । तया हि सत्त्वान् तायते तद्योगात् तायित्वं (1) स च वैफल्याद्वक्ति नानृतं । आत्मसुखाद्यभिलाषादिना कश्चिदसत्यं वदति अज्ञानाद्वा । प्रहीणात्मदर्शनस्य साक्षात्कृततत्त्वस्य तदुभयं नास्ति । (१४७)
(करुणाहेतुकं सत्याभिधानम्)
विशेषतः सत्याभिधानहेतुरेव कृपाऽस्तीत्याह (1) दयालुत्वात् परार्थञ्च सर्वारम्भाभियोगतः । तस्मात् प्रमाणं ;
दयालुत्वाच्च परार्थञ्च सर्व्वस्य मार्गाभ्यासादेरारम्भेऽभियोगतः परार्थमेवोद्दिश्य भगवानभिसंबुद्धः कथन्तस्य मिथ्याभिधानेन सत्त्ववञ्चनाशङ्कापि । तस्मातायित्वात् प्रमाणं भगवान् । यथादृष्टार्थप्रवक्तृत्वं हि सम्वादित्वमेवेति प्रथमप्रमाणलक्षणयोगात् प्रामाण्यमनेनोक्तं ।
' कश्चित्सवेता ( ? )
२
'अनुलोमतः पूर्व्वपूर्व्वाज्जगद्धितैषित्वादेरुत्तरोत्तरस्य सम्भावनानुमानेनात्यन्ताभावनिरासः । नावश्यं कारणं कार्यवदिति न नियमहेतुः ।
३ आस्प्रवक्षयाऽनुशासनीप्रातिहार्यनामके कारणे ।