________________
१०
प्र० वा. वृत्ती (१ परिच्छेदः) स्मतयाऽन्यत्वात् । न हि सात्मीभूतप्रतिपक्षस्य विपक्षबी जसम्भवः । निःशेषम्वागमनात् सुगतत्वं (1) तदाह (1)
शेषमक्लेशनिवरम् ॥१४॥ कायवाग्बुद्धिवैगुण्यं मागोक्त्यपटुताऽपि वा।
अशेषहानमभ्यासाद् ; कायवैगुण्यमचापलेप्युत्प्लुत्य गमनादि। वाग्वैगुण्यं मानाभावेपि बृषलीवादादि। बुद्धिवैगुण्यं नित्यासमाधानादव्याकृतचित्तावस्थानं एतत् त्रयं शेषं सकलक्लेशोपक्लेशप्रशमादक्लेशं। निवरञ्चादोषमूलत्वात्। मार्गस्य क्षणिकनैरात्म्यभावनादेरुक्तावपटुतापि वा शेषं तत्परित्यागावशेषहानमभ्यासादिति निःशेषगम - नात्सुगतत्वं।
दर्शितं त्रिगुणं सुगतत्वं ॥ ॥
ख. बुद्धत्वबाधकयुक्तिनिरासः तदेवं सर्वज्ञस्य सम्भवानुमानं प्रतिपाद्य तद्बाधकं दूषयितुमाह (1)
उक्त्यादेर्दोषसंक्षयः ॥१४४॥ नेत्येके व्यतिरेकोस्य संदिग्धो व्यभिचार्यतः ।
अक्षयित्वं च दोषाणां नित्यत्वादनुपायतः॥१४५॥ एके जैमिनी या उक्त्यादेखैतो रथ्यापुरुषवत् रागादिदोषसंक्षयः कस्यचिन्नास्तीत्याहुः। व्यतिरेको विपक्षाद् व्यावृत्तिः अस्य वक्तृत्वादिहेतोः संदिग्धोऽतो व्यभिचार्यनकान्तिकोयमिति विस्तरतो विपञ्चयिष्यते। ..
किञ्च (0) अक्षयित्वं दोषाणां यो मन्यते स नित्यत्वाद्वाऽकाशवत्' अनुपायत उपायाभावात् वा। नष्टस्य पुनरुन्मज्जनवत्। (१४४) (१४५)
एषां त्रयाणामपि हेतूनामसिद्धत्वं दर्शयति (1) उपायस्यापरिज्ञानादपि वा परिकल्पयेत् । हेतुमत्त्वात् विरुद्धस्य हेतोरभ्यासतः क्षयात् ॥१४॥
रागादिमान विवक्षितः पुरवो वक्तृत्वात्। २ असति रागादिमत्वे न भवति वक्तृत्वमिति।